Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on the text
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003)



श्रीगणेशाय नमः

स्कन्दपुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

एकोनषष्टितमोऽध्यायः ।
घटोत्कचस्य कृष्णसम्मत्या प्राग्ज्योतिषपुरम्प्रति गमनम्

शौनक उवाच ।

अत्यद्भुतमिदम् सूत गुप्तक्षेत्रस्य पावनम् ।
महन्माहात्म्यमतुलम् कीर्तितं हर्षवर्धनम् ॥ ५९-१

पुनर्यत्सिद्धलिङ्गस्य पूर्वं माहात्म्यकीर्तने ।
इत्युक्तं यत्प्रसादेन सिद्धमातुस्तुसेत्स्यति ॥ ५९-२

विजयो नाम पुण्यात्मा साहाय्याच्चण्डिलस्य च ।
को न्वसौ चण्डिलो नाम विजयो नाम कस्तथा ॥ ५९-३

कथं च प्राप्तवान्सिद्धिंसिद्धमातुःप्रसादतः ।
एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः ॥ ५९-४

सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत् ।

उग्रश्रव उवाच ।

साधु पृष्टमिदं विप्रा दूरान्तरितमप्युत ॥ ५९-५

श्रुतां द्वैपायनमुखात्कथांवक्ष्यामिचाऽत्र वः ।
पुरा द्रुपदराजस्य पुत्रीमासाद्यपाण्डवाः ॥ ५९-६

धृतराष्ट्रमते पश्चादिन्द्रप्रस्थं न्यवेशयन् ।
रक्षिता वासुदेवेन कदाचित्तत्र पाण्डवाः ॥ ५९-७

उपविष्टाः सभामध्ये कथाश्चक्रुः पृथक्विधाः ।
देवर्षिपितृभूतानां राज्ञाञ्चापि प्रकीर्तने ॥ ५९-८

क्रियमाणोऽथ तत्राऽगाद्भीमपुत्रो घटोत्कचः ।
तं दृष्ट्वा भ्रातरःपञ्च वासुदेवश्चवीर्यवान् ॥ ५९-९

उत्थाय सहसा पीठादालिलिङ्गुर्मुदा युताः ।
स च तान्प्रणतः प्रह्वो ववन्दे भीमनन्दनः ॥ ५९-१०

साशिषं च ततोराज्ञास्वोत्सङ्ग उपवेशितः ।
आघ्राय स्नेहतो मूर्ध्निप्रोक्तश्च जनसंसदि ॥ ५९-११

युधिष्ठिर उवाच ।

कुत आगम्यते पुत्र क्व चाऽयंविहृतस्त्वया ।
कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव ॥ ५९-१२

कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा ।
हैडम्बे नाऽपकुरुषे प्रियमेतद्धरेश्च नः ॥ ५९-१३

हिडम्बस्य वनंसर्वं तस्यये सैन्यराक्षसाः ।
पाल्यमानास्त्वयासाधोवर्धन्तेजनक्षेमकाः ॥ ५९-१४

कच्चिन्नन्दति ते माता भृशं नः प्रियकारिणी ।
कन्येव या पुरा भीमं त्य्क्त्वा मानं पति श्रिता ॥ ५९-१५

इति पृष्टोधर्मराज्ञास्मयन्हैडडम्बिरब्रवीत् ।
हते तस्मिन्दुराचारेमातुलेऽस्मिनियोजितः ॥ ५९-१६

तद्राज्यं शासनेस्थाप्यदुष्टान्निधनंश्चराम्यहम् ।
माताकुशलिनीदेवीतपोदिव्यमुपाश्रिता ॥ ५९-१७

मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव ।
सोऽहंमातुर्वचः श्रुत्वा मेरुपादात्समागतः ॥ ५९-१८

प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा ।
आत्मानं च महत्यर्थे कस्मिश्चित्तु नियोजितम् ।
भवद्भिरहमिच्छामि फलं यस्मादिदं महत् ॥ ५९-१९

यदाज्ञापालनंपुत्रः पितॄणां सर्वदाचरेत् ।
अथोर्द्ध्वलोकान्स जयेदिहजायेतकीर्तिमान् ॥ ५९-२०

सूत उवाच ।

इत्युक्तवन्तं तं राजा परिरभ्य पुनः पुनः ।
उवाच धर्मराट् पुत्रमानन्दाश्रुः सगद्गदम् ॥ ५९-२१

त्वमेव नो भक्तिकारी सहायश्चाऽपि वर्तसे ॥ ५९-२२

एतदर्थं च हैडम्बे पुत्रानिच्छन्ति साधवः ।
इहामुत्र तारयन्ते तादृशाश्चापि पुत्रकाः ॥ ५९-२३

अवश्यां यादृशीमाता तादृशास्तनयो भवेत् ।
माता च ते भक्तिमती दृढं नस्त्वं च तादृशः ॥ ५९-२४

अहो सुदुष्करं देवी कुरु ते मे प्रिया वधूः ।
या भर्तृश्रियमुल्लङ्घ्य तप एव समाश्रिता ॥ ५९-२५

नूनम् कामेनभोगैर्वाकृत्यंवध्वान के मनाक् ।
या पुत्रसुखमन्वीक्ष्यपरलोकार्थमाश्रिता ॥ ५९-२६

दुष्कुलीनाऽपि या भक्ता सूतेऽपतय्श्च भक्तिमत् ।
कुलीनमेव तन्मन्येममेदम् मतमुत्तमम् ॥ ५९-२७

एवं बहूनि वाक्यानि तानि तानि वदन्नृपः ।
धर्मराजः समाभाष्य केशवंवाक्यमब्रवीत् ॥ ५९-२८

पुण्डरीकाक्ष जानासि यथाभीमादभूदयम् ।
जातमात्रस्तुयश्चासीद्यौवनस्तोमहाबलः ॥ ५९-२९

अष्टानांदेवयोनीनांयतोजन्मचयौवनम् ।
सद्य एव भवेत्तस्मात्सद्योऽस्यसीच्चयौवनम् ॥ ५९-३०

तदस्योचितदारार्थे सदाचिन्ताऽस्ति कृष्ण मे ।
उचितंबतहैडम्बेः क्व कलत्रंकरोम्यहम् ॥ ५९-३१

तद्भवान्कृष्ण सर्वज्ञ त्रिलोकीमपिवेत्सिच ।
हैडम्बेरुचितांदारान्वक्तुमर्हसि यादव ॥ ५९-३२

सूत उवाच ।

एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः ।
धर्मराजमिदं वाक्यं पदान्तरितमब्रवीत् ॥ ५९-३३

अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् ।
साम्प्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरेवरे ॥ ५९-३४

सा च पुत्री मुरोः पार्थ दैत्यस्याऽद्भुतकर्मणः ।
योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत् ॥ ५९-३५

स च मे निहतो घोरः पाशदुर्गसमन्वितः ।
नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः ॥ ५९-३६

ततो हते मुरो दैत्ये मया तस्य सुताव्रजत् ।
योद्धुंमामतिवीर्यत्वाद्घोराकामकटङ्कटा ॥ ५९-३७

तां ततोऽहं महायुद्धे खाड्गखेटकधारिणीम् ।
अयोधयं महाबाणैः सुशार्ङ्गंधनुषश्च्युतैः ॥ ५९-३८

खड्गेनचिच्छेदबाणान्मम साच मुरोः सुताः ।
समागम्य च खड्गेनगरुडंमूर्ध्न्यताडयत् ॥ ५९-३९

स च मोहसमाविष्टो गरुडोऽभूतचेतनः ।
ततस्तस्या वदार्थाय मया चक्रं समुद्यतम् ॥ ५९-४०

चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे ।
कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत् ॥ ५९-४१

नैनां हन्तुं भवनर्हो रक्षैतां पुरुषोथम ।
अजेयत्वं मयाह्यस्य दत्तं खड्गम् च खेटकम् ॥ ५९-४२

बुद्धिरप्रतिमाचापिशक्तिश्चपरमा रणे ।
ततस्त्वयात्रिरात्रेऽपिनजिताऽऽसीन्मुरोः सुता ॥ ५९-४३

एवमुक्ते तदा देवीम् वचनं चाऽहमब्रवम् ।
अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे ॥ ५९-४४

ततश्चालिङ्ग्यतांभक्तां कामाख्यांवाक्यमब्रवीत् ।
भद्रे रणन्निवर्तेस्वनायंहन्तुंकथञ्चन ॥ ५९-४५

शक्यः केनाऽपि समरेमाधवोरणदुर्जयः ।
नाऽभूदस्तिभविष्यो वा य एनंसंयुगेजयेत् ॥ ५९-४६

अपि वा त्र्यम्बकः पुत्रि नैनं शक्तःकुतोऽन्यकः ।
तस्मादेनंनमस्कृत्यभाविनं श्वशुरं शुभे ॥ ५९-४७

रणादस्मान्निवर्तस्वतवोचितमिदंस्फुटम् ।
अस्यभ्रातुर्हिभीमस्यस्नुषात्वंचभविष्यसि ॥ ५९-४८

तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् ।
न च शोकस्त्वयाकार्यः पितरं प्रति पण्डिते ॥ ५९-४९

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्ममृतस्य च ।
बहवश्चाऽस्य वेत्तारो वदकेनाऽपिवार्यते ॥ ५९-५०

ऋषींश्च देवांश्च महासुरांश्च
त्रैविद्यविद्यान्पुरुषान्नृपांश्च ।
कान्मृत्युरेको न पतेत काले
परावरज्ञोऽत्र न मुह्यते क्वचित् ॥ ५९-५१

श्लाघ्यएवहितेमृत्युः पितुरस्माज्जनार्दनात् ।
सर्वपातकनिर्मुक्तोगतोऽसौधामवैष्णवम् ॥ ५९-५२

एवं कामाख्यया प्रोक्ता सा च कामकटङ्कटा ।
त्यक्ता क्रोधं च सम्वृत्य गात्राणि प्रणता च माम् ॥ ५९-५३

तामहं साशिषं चाऽपि प्रोवाचं भरतर्षभ ।
अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता ॥ ५९-५४

मया देव्या पृथिव्या च भगदत्तःकृतोनृपः ।
स ते पूजांबहुविधांकरिष्यतिस्वसुर्यथा ॥ ५९-५५

वसन्ति चाऽत्र तंवीरं हैडिम्बं पतिमाप्स्यसि ।
एवमाश्वास्य तां देवीं मौर्वीं चाहंव्यसर्जयम् ॥ ५९-५६

सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च ।
ततो द्वारवतीं प्राप्यत्वयासहसमागतः ॥ ५९-५७

एवमेषोचिता दारा हैडम्बेर्विद्यते शुभा ।
कामाख्ये च रणे घोरा या विद्युदिव भासते ॥ ५९-५८

न च रूपं वर्णितं मे श्वसुरस्योचितं यतः ।
साधोर्हि नैतदुचितं सर्वस्त्रीणांप्रवर्णनम् ॥ ५९-५९

पुनरेकश्च समयः कृतस्तं शृणु यस्तया ।
योमां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान् ॥ ५९-६०

यो मे प्रतिबलश्चाऽपि स मे भर्ता भविष्यसि ।
एवञ्चसमयं श्रुत्वा बहवोदैत्यराक्षसाः ॥ ५९-६१

तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया ।
यो न एनांगतः पूर्वं न स भूयोन्यवर्तत ॥ ५९-६२

वह्नेरिव प्रभं दीप्तां पतङ्गानां समुच्चयः ।
एवमेतादृशीं मौर्विं जेतुमुत्सहते यदि ॥ ५९-६३

घटोत्कचो महावीर्यो भार्याऽस्य नियतं भवेत् ॥ ५९-६४

युधिष्ठिर उवाच ।

अलं सर्वगुणैर्स्तस्या यस्यास्त्वेको गुणो महान् ।
क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम् ॥ ५९-६५

प्राणाधिकं भैमसेनिंकथंकेवलसाहसात् ।
क्षिपेयंतववाक्यानांशुद्धानांचाऽथकोविदम् ॥ ५९-६६

अन्याअपिस्त्रियः सन्ति देशेदेशे जनार्दन ।
बह्व्यस्तासांवरां काञ्चिद्योषितंवक्तुमर्हसि ॥ ५९-६७

भीम उवाच ।

सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् ।
राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे ॥ ५९-६८

कार्ये दुःसाद्य एव स्यात्क्षत्रियस्य पराक्रमः ।
करीन्द्रस्येव यूथेषुगजानां न मृगेषु च ॥ ५९-६९

आत्माप्रख्यातिमानेयः सर्वतावीरपुङ्गवैः ।
साच ख्यातिः कथंजायेद्दुःसाध्यकरणाधृते ॥ ५९-७०

न ह्यात्मवशगं पार्थ हैडम्बेरस्य रक्षणम् ।
येन दत्तस्तवं धात्रा स एनं पालयिष्यति ॥ ५९-७१

सर्वथोच्चपदारोहे यत्नःकार्यो विजानता ।
तन्नसिध्यति चेद्दैवान्नाऽसौदोषोविजानतः ॥ ५९-७२

यथा देवव्रतस्त्वेको जह्ने काशिसुता पुरा ।
तथैक एव हैडिम्बिमौर्वीं प्राप्नोतुमाचिरम् ॥ ५९-७३

अर्जुन उवाच ।

केवलं पौरुषपरं भीमेनोक्तमिदं वचः ।
अबलं दैवद्देतुत्वात्प्रबलं प्रतिभाति मे ॥ ५९-७४

न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् ।
भीमसेनसुतः पाणि तव भद्रे ग्रहिष्यति ॥ ५९-७५

अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः ।
इति मे रोचते कृष्ण तव किं ब्रूहि रोचते ॥ ५९-७६

कृष्ण उवाच ।

रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः ।
न हि तुल्यो भैमसेनेर्बुद्धौ वीर्य च कश्चन ॥ ५९-७७

अन्तरात्माचमे वेत्ति प्राप्तामेवमुरौःसुताम् ।
तच्छीघ्रं यातुहैडम्बिस्त्वं च किं पुत्रमन्यसे ॥ ५९-७८

घटोत्कच उवाच ।

नहिन्याय्याः स्वकावक्तुंपूज्यानामग्रतोगुणाः ।
प्रवृत्ताएवभासन्तेसद्गुणश्च रवेः करा ॥ ५९-७९

सर्वथातत्करिष्यामिपितरोयेनमेऽमलाः ।
लज्जिष्यन्ति न संसत्सुमयापुत्रेणपाण्डवाः ॥ ५९-८०

एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् ।
जयाशीर्भिश्च पितृभिर्वर्द्धितो गन्तुमैच्छत ॥ ५९-८१

तं गन्तुकाममाहेदमभिनन्द्य जनार्दनः ।
कथाकथनकाले मां स्मरेथास्त्वं जयावहम् ॥ ५९-८२

यथाबुद्धिर्सुदुर्भेद्यांवर्धयामिवलंचते ।
इत्युक्त्वाऽऽलिङ्ग्यतंकृष्णोव्यससर्ज तसाशिषम् ॥ ५९-८३

ततोहिडिम्बातनयोमहौजाः सूर्याक्षकालाक्षमहोदरानुगः ।
वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये ॥ ५९-८४

इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने घटोत्कचस्य
प्राग्ज्योतिषपुरं प्रति गमनवर्णनं नामैकोनषष्टितमोऽध्यायः ॥

November 11, 2009