Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on the text
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003)

श्रीगणेशाय नमः

स्कन्दपुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

षष्टितमोऽध्यायः ।
घटोत्कचद्वारा मौर्व्या बर्बरीकपुत्रोत्पत्तिवर्णनम्

सूत उवाच

सोऽथ प्राग्ज्योतिषाद्बाह्येमहोपवनसंस्थितम् ।
सहस्रभूमिकंगेहमपश्यतहिरण्मयम् ॥ ६०-१

वेणुवीणामृदङ्गानांनिःस्वनैः परिपूरितम् ।
दशसाहस्रसंख्याभिश्चेटिभिः परिपूरितम् ॥ ६०-२

आयाद्भिःप्रतियाद्भिश्चभगदत्तस्यकिङ्करैः ।
किमिच्छन्तीतिभगिनीपृच्छकैरभिपूरितम् ॥ ६०-३

तदासाद्य सा हैडम्बिर्मेरोःशिखरवद्गृहम् ।
द्वारिस्थितांसन्ददर्शकर्णप्रावरणांसखीम् ॥ ६०-४

तामाह ललितंवीरोभद्रोसा क्व मुरोः सुता ।
कामुकोद्रष्टुमिच्छामिदूरदेशागतोऽतिथिः ॥ ६०-५

कर्णप्रावरणोवाच ।

किंतवास्तिमहाबाहोतयामौर्व्याप्रयोजनम् ।
कोटिशोनिहताः पूर्वं तया कामुककामुकाः ॥ ६०-६

तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम् ।
प्रणम्य पादयोव्रीर स्थिता ते वचनङ्करी ॥ ६०-७

तन्मयासहमोदस्वन्भुङ्क्ष्वभोगाम्श्चकामुक ।
दास्याम्यनुचराणांतेत्रयाणांचप्रियात्रयम् ॥ ६०-८

घटोत्कच उवाच ।

कलाणि किम्वदन्ती ते प्रमुक्ता स्वोचिता शुभे ।
पुनर्नैतद्वचस्तुभ्यंविशतेममचेतसि ॥ ६०-९

वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते ।
सचाऽत्र नैव बध्नाति तद्वयं किं प्रकुर्महे ॥ ६०-१०

अद्य ते स्वामिनीदृष्टाजितवाक्रीडते मया ।
तथा वा विजितोयास्येपूर्वेषांकामिनांगतिं ॥ ६०-११


कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यतां ।
यथादर्शनमात्रेण पूजयन्त्यतिथिं खलु ॥ ६०-१२

इति भैमेर्वचः श्रुत्वा प्रस्खलन्तीनिशाचरी ।
प्रासादशिखरस्थांतांमौर्विमेवंवचोऽवदत् ॥ ६०-१३

देवि कोऽपियुवाश्रीमांस्त्रैलोक्येष्वमितप्रभः ।
कामातिथिस्तवद्वारिवर्ततेदिशतत्परम् ॥ ६०-१४

कामकटङ्कटोवाच ।

मुच्यतां शीघ्रमेवाऽसौ किमर्थं वा बिलम्बसे ।
कदाचिद्दैवसङ्गत्यासमयो मेऽभिपूर्यते ॥ ६०-१५

इत्युक्तवचनाच्चेटीप्राप्यावोचद्घटोत्कचम् ।
व्रजशीघ्रं कामुकत्वंतस्याभृत्योश्चसन्निधौ ॥ ६०-१६

इत्युक्तः स प्रहस्यैव तत्रोसृज्य स्वकानुगान् ।
प्रविवेश गृहं भैमीः सिंहोमेरुगुहामिव ॥ ६०-१७

सपश्यञ्छुकसङ्घातान्पारावतगणांस्तथा ।
सारिकाञ्च मदोन्मत्ताश्चेटिस्तां चाऽप्यपश्यत ६०-१८

रूपेण वयसा चैव रतेरपि रतिङ्करीं ।
आन्दोलनकसुखासीनां सर्वाभरणभूषिताम् ॥ ६०-१९

तां विद्युतमिवोन्नद्धांदृष्ट्वा भैमिरचिन्तयत् ।
अहो कृष्णेन पित्रा मेनिर्दिष्टेयं ममोचिता ॥ ६०-२०

न्याप्यमेतद्कृते पूर्वं नष्तायत्कामिनां गणाः ।
शरीरक्षयपर्याप्तं क्षीयते यदिकामिनाम् ॥ ६०-२१

कामिनीनां कृते येषां क्षीयते गणनाऽत्रका ।
एवं बहुविधं कामी चिन्तयन्नाह भीमभूः ॥ ६०-२२

निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव ।
उचितां तत्सतां पूजां कुरु या ते स्थिता हृदि ॥ ६०-२३

इति हैडम्भिवचनं श्रुत्वा कामकटङ्कटा ।
विस्मिताऽभूत्तस्य रूपात्स्वंनिनिन्दचबालिशम् ॥ ६०-२४

धिगहं यन्मया पूर्वं समयः स कृतोऽभवत् ।
न कृतोऽभूद्यदि पुरा अभविष्यदसौ पतिः ॥ ६०-२५

इति सञ्चिन्तयन्तीसा भैमिं वचनमब्रवीत् ।
वृथा त्वमागतो भद्र जीवन्याहिपुनःसुखी ॥ ६०-२६

अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ।
कथामाभाष्ययदिमांसन्देहेपातयिष्यसि ।
ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया ॥ ६०-२७

सूत उवाच ।

इत्युक्तवचनामेतां नेत्रोपान्तेन वीक्ष्य सः ॥ ६०-२८

स्मृत्वा चराचरगुरुं कृष्णमारब्दवान्कथाम् ।
कस्याञ्चिदभवद्पत्न्यां युवा कोऽप्यजितेन्द्रियः ॥ ६०-२९

तस्यचैकासुताजज्ञेभार्या तस्यमृताऽभवत् ।
ततो बालकिकांपुत्रींररक्ष च पुपोष च ॥ ६०-३०

सा यदाभूद्यौवनगा व्यञ्चितावयवा शुभा ।
प्रोल्लसत्कुचमध्याङ्गी प्रोल्लसन्मुखपङ्कजा ॥ ६०-३१

तदाऽस्य कामलुलितमालानांप्रजहौमनः ।
प्रोवाच तां च तनयां समालिङ्ग्यदुराशयः ॥ ६०-३२

प्रातिवेश्मकपुत्रीत्वंमयाऽऽनीयाऽत्रपोषिता ।
भार्यार्थं सुचिरं बालं तत्कार्यं साधयप्रिये ॥ ६०-३३

इत्युक्ता सा च मेने च तत्तथैववचस्तदा ।
पतित्वेनच भेजे तं भार्यात्वेन स तां तथा ॥ ६०-३४

ततस्तस्यां सुतो जज्ञे तस्मान्मदनरासभात् ।
वदसातस्यभवतिकिंदौहित्रीसुताऽथवा ॥
एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते ॥ ६०-३५

सूत उवाच

इति प्रश्नं च सा श्रुत्वाऽचिन्तयद्बहुधा हृदि ॥ ६०-३६

न च पश्यति निर्घोरं प्रश्नस्याऽस्यकथञ्चन ।
ततः प्रश्नेन विजिता स्वांशक्तिंसमुपाददे ॥ ६०-३७

अताडयद्रुक्मरज्जुं कराभ्यांदोलकस्य च ।
ततो रक्षांसिनिष्पेतुः कोटिशो भीषणान्यति ॥ ६०-३८

सिंहव्याघ्रवराहाश्चमहिषाश्चित्रकामृगाः ।
समीक्ष्यतानसंख्येयान्स्वादितुंधावतोरुषा ॥ ६०-३९

अवादयन्नखो भैमिः कनिष्ठाङ्गुष्ठजौ हसन् ।
ततो विनिःसृतास्तत्र द्विगुणाराक्षसादयः ॥ ६०-४०

तैमौर्वींनिर्मिताः सर्वे क्षणादेव स्म भक्षितः ।
विजितायांस्वशक्तौश्च बलशक्तिमथाददे ॥ ६०-४१

उत्थाय सहसा दोलात्खाड्गमादातुमैच्छत ।
उत्तिष्टन्तीं च तां भैमिरनुसृत्यजवादिव ॥ ६०-४२

केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि ।
ततः कण्ठे सव्यपादं दत्त्वाऽऽदाय च कर्तिकाम् ॥ ६०-४३

दक्षिणेन करेणाऽस्याश्छेत्तुमैच्छत नासिकाम् ।
विस्फुरन्ति ततो मौर्वीं मन्दमाह घटोत्कचम् ॥ ६०-४४

प्रश्नेन शक्त्या च बलेन नाथ
त्रिधा त्वयाऽहं विजिता नमस्ते ।
तन्मुञ्च मां कर्मकरी तवाऽस्मि
समादिश त्वं प्रकरोमि तच्च ॥ ६०-४५

घटोत्कच उवाच ।

यद्येवं तर्हि मुक्ताऽसि भूयोदर्शाय यद्बलम् ।
एवमुक्त्वामुमोचैनां मुक्ताचाहप्रणम्यसा ॥ ६०-४६

जानामि त्वां महाबाहोवीरंशक्तिमताम्वरम् ।
सर्वराक्षसभर्तारं तर्लोक्येऽमितविक्रमम् ॥ ६०-४७

गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः ।
षष्टिकोटिपतिर्जातो यक्षरक्षाकृते भुवि ॥ ६०-४८

इति मां प्राहकामाख्या सर्वं तत्संस्मराम्यहम् ।
इदं गेहं सानुगंमेदत्तं मयाऽऽत्मनातव ॥ ६०-४९

समादिश प्राणनाथ कमादेशं करोमि ते ।

घटोत्कच उवाच ।

प्रच्छन्नस्तस्य घटते न विवाहः कथञ्चन ॥ ६०-५०

मौर्वि यस्य हि वर्तन्ते पितरौ बान्धवस्तथा ।
तन्मां शीघ्रं वहशुभेशक्रप्रस्तायसम्प्रति ॥ ६०-५१

अयंकुलक्रमोऽस्माकं यद्भार्यापतिमुद्वहेत् ।
तत्रानुज्ञांसमासाद्य परिणेष्यामि त्वामहम् ॥ ६०-५२

भगदत्तमथो नाथं ततो मौर्विंन्यवेदयत् ।
समादाय बहुद्रव्यं विससर्जाऽथभ्रातरम् ॥ ६०-५३

ततः पृष्टिं समारोप्य घटोत्कचमनिन्दिता ।
नानाद्रव्यपरीवारा शक्रप्रस्थं समाव्रजत् ॥ ६०-५४

ततोऽसौ वासुदेवेन पाण्डवैश्चाऽभिनन्दितः ।
शुभेलग्ने पाणिमस्याजगृहेभीमनन्दनः ॥ ६०-५५

कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः ।
उद्वाह्य तां तद्धनैश्च तर्पयायास पाण्डवान् ॥ ६०-५६

कुन्ती च द्रौपदी चोभे मुमुदाते नितान्ततः ।
मङ्गलान्यस्य चक्राते मौर्व्याश्च धनतर्पिते ॥ ६०-५७

ततो विवाहे निवृत्ते प्रतिपूज्यघटोत्कचम् ।
भार्ययासहितंराजा स्वराज्यायसमादिशत् ॥ ६०-५८

मौर्व्याऽऽज्ञांशिरसागृह्यहैडम्बिर्भार्ययाऽन्वितः ।
शुभंहिडम्भस्यवने स्वराज्यं समुपाव्रजत् ॥ ६०-५९

ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः ।
महोत्सवेन महता स्वराज्ये प्रमुमोद सः ॥ ६०-६०

ततो वनेषु चित्रेषु निम्नगापुलिनेषु च ।
रेमे सह तया भैमिर्मन्दोदर्येव रावणः ॥ ६०-६१

एवं विक्रीडितस्तस्य गर्भो जज्ञे महाद्युतेः ।
हैडिम्भैराक्षसव्याघ्राद्बालसूर्यसमप्रभः ॥ ६०-६२

स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत् ।
नीलमेघचयप्रख्यो घटास्यो दीर्घलोचनः ॥ ६०-६३

ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौप्रणतोऽब्रवीत् ।
प्रणमामि युवांचोभौजातस्यपितरौगुरू ॥ ६०-६४

भवतोर्हिप्रियंकृत्वाअनृणःस्यांसदाह्यहम् ।
भवद्भ्यांदत्तमिच्छामिअभिधानंयथात्मनः ॥ ६०-६५

अतः परंतु यच्छ्रेयः कर्तव्यंप्रोन्नतिप्रदम् ।
ततो भैमिस्तमालिङ्ग्य पुत्रं वचनमब्रवीत् ॥ ६०-६६

बर्बराकारकेशत्वाद्बर्बरीकाभिधोभवान् ।
भविष्यति महाबाहो कुलस्याऽऽनन्दवर्धनः ॥ ६०-६७

श्रेयश्च ते यत्परमं दृढं च
तत्कीर्त्यते बहुधा विप्रमुख्यैः ।
प्रक्ष्यावहे तद्यदुवंशनाथं
गत्वा पुरीं द्वारकां वासुदेवम् ॥ ६०-६८

इति श्रीस्कान्दे महापुराणे एकशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे
कौमारिकाखण्डे बर्बरीकोपाख्याने घटोत्कचस्य
मौर्वींसकाशाद्बर्बरीकोत्पत्तिवर्णनं नाम षष्टितमोऽध्यायः ॥






November 11, 2009