Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam SkandamahApurANam, 7 parts in 8 volumes, Chaukhambha Sanskrit Series Office, Varanasi (2003).

श्रीगणेशाय नमः

स्कन्दपुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

एकषष्टितमोऽध्यायः ।
महाविद्यासाधने गणेश्वरकल्पवर्णनम्

सूत उवाच

ततो घटोत्कचोमुक्त्वातत्रकामकटङ्कटाम् ।
पुत्रेणाऽनुगतो धीमान्वियताद्वारकां ययौ ॥ ६१-१

आगच्छन्तं च तं दृष्ट्वा राक्षसं राक्षसानुगम् ।
द्वारकावासिनो योधाश्चक्रुरत्युल्बणंरवम् ॥ ६१-२

ग्रामग्रामे सुसन्नद्धा नवलक्षमिता रथाः ।
राक्षसौ द्वौ समायातौपात्येतांविशिखैरिति ॥ ६१-३

तानुग्रहीतायुधान्दृष्ट्वा यदुवीरान् घटोत्कचः ।
प्रगृह्य विपुलं बाहुं जगौ तारस्वरेण सः ॥ ६१-४

राक्षसं वित्त मां वीरा भीमपुत्रंघटोत्कचम् ।
सुप्रियं वासुदेवस्य प्रणामार्थमुपागतम् ॥ ६१-५

निवेदयत मां प्राप्तं यादवेन्द्रायसात्मजम् ।
इति तस्यवचःश्रुत्वाते कृष्णाय निवेदयन् ॥ ६१-६

आह देवः सभास्थश्चशीघ्रमत्राऽऽब्रजत्वसौ ।
ततः प्रवेशयामासुर्द्वारकांतेघटोत्कचम् ॥ ६१-७

सपुत्रःसोऽपिरम्याणिवनान्युपवनानि च ।
क्रीडाशैलांश्चहर्म्याणिसम्पश्यन्नागतःसभाम् ॥ ६१-८

स तत्र उग्रसेनं च वसुदेवं च सात्यकिम् ।
अक्रूररामप्रमुखान्ववन्दे कृष्णमेव च ॥ ६१-९

तं पादवोनिपतितं समालिङ्ग्य सहाऽऽत्मजम् ।
साशिषं स्वसमीपस्थमुपवेश्येदमब्रवीत् ॥ ६१-१०

पुत्र राक्षसशार्दूल कुरूणां कुलवर्धनः ।
कुशलं सर्वतः कच्चित्कमर्थस्ते समागमः ॥ ६१-११

घटोत्कच उवाच

देव युष्मत्प्रसादेन सर्वतः कुशलं मम ।
श्रूयतां कारणम् स्वामिन्यदर्थमहमागतः ॥ ६१-१२

देवोपदिष्टभार्यायां जातोऽयं तनयो मम ।
स च प्रश्नंवक्ष्यति त्वां श्रूयतामागतस्त्वतः ॥ ६१-१३

श्रीकृष्ण उवाच

वत्स मौर्व्येय ब्रूहि त्वंसर्वं पृच्छयदिच्छसि ।
यथा घटोत्कचोमह्यं सुप्रियश्च तथाभवान् ॥ ६१-१४

बर्बरीक उवाच

प्रणम्यत्वामादिदेवं मनोबुद्धिसमाधिभिः ।
प्रक्ष्यामि केनश्रेयःस्याज्जन्तोर्जातस्यमाधवः ॥ ६१-१५

केचिच्छ्रेयोधर्ममाहुरैश्वर्यंत्यागभोजनम्
केचिद्दमं तपोद्रव्यं भोगान्मुक्तिञ्च केचन ॥ ६१-१६

तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम ।
मम चैवं कुलस्याऽस्य श्रेयोयद्ब्रूहिनिश्चितम् ॥ ६१-१७

श्रीकृष्ण उवाच

वत्स पृथक्पृथक्प्रोक्तं वर्णानां श्रेय उत्तमम् ।
ब्राह्मणानां तपोमूलं दमोऽध्यनमेव च ॥ ६१-१८

धर्मप्रकटनं चाऽपि श्रेय उक्तं मनीषिभिः ।
बलं साध्यं पूर्वमेव क्षत्रियाणां प्रकीर्तितम् ॥ ६१-१९

दुष्टानां शासनं चाऽपि साधूनां परिपालनम् ।
पाशुपाल्यं च वैश्यानां कृषिर्विज्ञानमेव च ॥ ६१-२०

शूद्रस्यद्विजशुश्रूषातयाजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ॥ ६१-२१

भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धापरायणः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ ६१-२२

तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु ।
बलं साधय पूर्वं त्वमतुलं तेन शिक्षय ॥ ६१-२३

दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि ।
बलं च लभ्यते पुत्र देविनां सुप्रसादतः ॥ ६१-२४

तद्भवान् बलप्राप्त्यर्थं देव्याराधनमाचर ॥ ६१-२५

बर्बरीक उवाच

कस्मिन्क्षेत्रे च कां देवीम् कथमाराधयाम्यहम् ।
एतत्प्रसादप्रवणं मनः कृत्वा निवेदयः ॥ ६१-२६


सूत उवाच

इति पृष्टः क्षणं ध्यात्वाप्राहदामोदरोविभुः ।
वत्स क्षेत्रं प्रविक्ष्यामि यत्रतप्स्यसितत्तपः ।
गुप्तक्षेत्रमितिख्यातं महीसागरसंगमे ॥ ६१-२७

तत्र त्रिभुवने याश्चः सन्थि देव्यः पृथग्विधाः ।
नारदेन समानीतास्ताश्चैक्यंसुमहात्मना ॥ ६१-२८

चतस्रस्तस्य दिग्देव्यो नवदुर्गाश्च सन्ति याः ।
समाराधाय ताः गत्वा तासामैक्यं हि दुर्ल्लभम् ॥ ६१-२९

नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः ।
स्तुतिभिश्चोपहारैश्च यथा तुष्यन्ति तास्तव ॥ ६१-३०

तुष्टासु देवीषु बलं धनञ्च
कीर्तिश्च पुत्राः सुभगाश्च दाराः ।
स्वर्गस्तदा मुक्तिपदं च सत्सुखं
न दुर्ल्लभं सत्यमेतत्तवोक्तम् ॥ ६१-३१

सूत उवाच

एवमुक्त्वा बर्बरीकं कृष्णः प्राहघटोत्कचम् ।
घटोत्कचाय पुत्रस्ते दृढं सुहृदयोह्यसौ ॥ ६१-३२

तस्मात्सुहृदयेत्येवं दत्तं नाममया द्विकम् ।
एवमुक्त्वासमालिङ्ग्यसन्तर्प्यविविधैर्धनैः ॥ ६१-३३

गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत् ।
सोऽथ कृष्णं नम्स्कृत्यपितरंयादवांश्चतान् ॥ ६१-३४

अनुज्ञाप्य च तान्सर्वान् गुप्तक्षेत्रं समाव्रजत् ।
घटोत्कचोऽपि कृष्णेन विषृष्टः स्ववनं ययौ ॥ ६१-३५

स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत् ।
ततः सुहृदयो धीमान्दग्धस्थल्यां कृताश्रमः ॥ ६१-३६

त्रिकालं पूजयामास देवीः कर्मसमाधिभिः ।
नित्यं पुष्पैश्च धूपैश्च उपहारैः पृथग्विधैः ॥ ६१-३७

तस्याऽऽराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः ।
ततः प्रत्य्क्षतो भूत्वाबलात्तस्यमहात्मनः ॥ ६१-३८

बलं यत्त्रिषुलोकेषु कस्यचिन्नास्तिदुर्ल्लभम् ।
ऊचुश्चकञ्चित्कालं त्वं वसाऽत्रैवमहाद्युते ॥ ६१-३९

सङ्गत्या विजयस्व त्वं भूयः श्रेयो ह्यवाप्स्यसि ।
इत्युक्तः सर्वदेवीभिः स ततरिव व्यवस्थितः ॥ ६१-४०

आजगामाऽथविजयोनाम्नामागधब्राह्मणः ।
ससर्वांपृथिवींकृत्वापादाक्रान्तांद्विजोत्तमः ॥ ६१-४१

काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ ।
गुहेश्वरमुखान्येष सप्तलिङ्गान्यपूजयत् ॥ ६१-४२

आराधयामास चिरंदेविर्विद्याफलाप्तये ।
ततस्तुष्टास्तस्य देव्यः स्वप्ने प्रोचुरिदंवचः ॥ ६१-४३

विद्यांसाधय त्वंसाधोसिद्धमातुः पुरोऽङ्गणे ।
अयम् भक्तः सुहृदयः सहाय्यंतेकरिष्यति ॥ ६१-४४

ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः ।
उत्थाय गत्वा देव्यास्तं वव्रे भीमात्मजात्मजम् ॥ ६१-४५

सोऽपिदेवीवचः श्रुत्वामेनेसाहाय्यकारणम् ।
ततःकृष्णचतुर्दश्यामुपोष्यविजयःशुचिः ॥ ६१-४६

स्नात्वाऽभ्यर्च्यैव लिङ्गानि देविश्चैवार्चयत्पृथक् ।
कृत्वा स्नानमुपोष्यैव बर्बरीकोऽन्तिकेऽभवत् ॥ ६१-४७

प्रथमायां ततौ रात्रौययौसिद्धांबिकापुरः ।
मण्डलं तत्र कृत्वा च भगाकारं करान्नव ॥ ६१-४८

अष्टदिक्ष्वष्टकीलांश्च निस्वन्यैव ससूत्रकान् ।
कृष्णाजिनधरो भूत्वा बर्बरीकसमन्वितः ॥ ६१-४९

शिखामाबद्ध्यदिग्बन्धं कृत्वा रेमे ततोविधिम् ।
तन्मध्येमण्डलस्याऽपिकुण्डेशुभ्रेत्रिमेखले ॥ ६१-५०

समर्प्यच ततःखड्गं खादिरं मन्त्रतोजितम् ।
संस्थाप्यकीलानभितोबर्बरीकमथाऽब्रवीत् ॥ ६१-५१

शुचिर्विनिद्रः सन्तिष्ठ स्थवं देव्याः समुद्गिरन् ।
यावत्कर्म करोम्येष यथा विघ्नं न जायते ॥ ६१-५२

इत्युक्ते संस्थिते तत्र बर्बरीके महाबले ।
विजयः शोषणं दाहं प्लावनं कृतवान्यमी ॥ ६१-५३

ततः सुहासनो भूत्वा गुङ्गुरुभ्यो नमः इति ।
मन्त्रमष्टोत्तरशतं जपत्वागुरुभ्य प्रणम्य च ।
ततो गणेश्वरविधानमारब्दवान् ॥ ६१-५४

अथाऽतः संप्रवक्ष्यामि मन्त्रं गणपतेः परम् ॥ ६१-५५

सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम् ॥ ६१-५६
ॐ गांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामन्त्रः ।
ॐ गणपतिमन्त्रस्य गणको नाम ऋषिः विघ्नेश्वरो देवता
गं बीजं ॐ शक्तिः पूजार्थं जपार्थं वा तिलकार्थं वा मनसा
ईप्सितार्थे होमार्थे वा विनियोग इति साधकस्य पूर्वं तिलककरणम् ।

ॐ गां गणपतये नमः । इति तिलकस्योपरि अक्षतन्दद्यात् अनेन मन्त्रेण ।
ॐ गांगणपतये नमः । इति तिलकमन्त्रः । ॐ गांगणपतये नमः ।
अनेन मन्त्रेण गणेशाय पुष्पाञ्जलित्रयं दद्यात् ।
मूलमन्त्रेणाऽत्रचन्दनगन्धपुष्पधूपदीपनैवेद्यपूगफल-ताम्बूलादिकं
दद्यात् । अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् । अष्टोत्तरशतं
सहस्रं लक्षं कोटिं चेति यथाशक्तिजप्त्वादशांशहोमार्थे गणेशाग्नये
आवाहयामिति अग्निमावाह्य ।
ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं
चेति गणेश्वरो महाकल्पः ।

य एवं सर्वविघ्नेषुसाधयन्मन्त्रमुत्तमं ।
सर्वविघ्नानि नश्यन्ति मनोऽभीष्टं च सिध्यति ॥ ६१-५७

डाकिन्यो यातुधानाश्च प्रेताद्यश्च भयंकराः ।
शत्रूणां जायते नाशोवशीकरणमेव च ॥ ६१-५८

इमं गणेश्वरं कल्पं विजानन्विजयोऽपि च ।
तिलकं विधिना कृत्वा जप्त्वा चाऽष्टोत्तरं शतम् ॥ ६१-५९

दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकं ।
सिद्धेयक्षेत्रपालस्य चक्रेपूजां ततो निशि ॥ ६१-६०

इति श्रीस्कान्दे महापुराणे एकशीतिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गणेश्वरकल्पवर्णनं
नामैकषष्टितमोऽध्यायः ॥


णोवेम्बेर् २४, २००९