श्रीगणेशाय नमः
स्कन्दपुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्
द्विषष्टितमोऽध्यायः ।
कालिकायारुद्राविर्भाववर्णनम्
शौनक उवाच
सूत श्रुता पुराऽस्माभिरुत्पत्तिगणपस्य च ।
क्षेत्रनाथः कथं जज्ञेवदैतच्छृण्वतोहिनः ॥ ६२-१
सूत उवाच
यदा दारुकदैत्येन पीड्यमाना दिवौकसः ।
शिवं देव्या सहासीनम् प्रणिपत्येतमब्रुवन् ॥ ६२-२
देव दैत्येनघोरेणदुर्जयेनसुरासुरैः ।
पीडिता दारुकेणस्मः स्वस्थानाच्चापिच्याविताः ॥ ६२-३
न विष्णुना न चन्द्रेण न चाऽन्येनाऽपि केनचित् ।
शक्यो हन्तुं स दुष्टात्मा अर्धनारीश्वरं विना ॥ ६२-४
तेन संपीड्यमानानामस्माकं शरणं भव ।
इत्युक्त्वारुरुदुर्देवास्त्राहित्राहीतिचाऽब्रुवन् ॥ ६२-५
ततोऽतिकृपयाविष्टहरकण्ठस्य कालिमाम् ।
गृहीत्वा पार्वतीचक्रे नारीमेकांमहाभयाम् ॥ ६२-६
आत्मशक्तिं तत्र मुक्त्वा प्रोवाचेदं वचः शुभा ।
यस्मादतीव कालाऽसि नाम्नः त्वम् कालिका भव ॥ ६२-७
देवारिं च दुरात्मानं शीघ्रं नाशय शोभने ।
एवमुक्ता महारावा कालिका प्राप्यतंतदा ॥ ६२-८
रवेणैव मृतं चक्रे सानुगं स्फुटितहृदम् ।
ततोऽवन्तीशमानस्था महारावानमुञ्चत ॥ ६२-९
यैरासन्विकला लोकास्त्रयोऽपिप्रशृता यथा ।
ततो रुद्रोबालरूपंकृत्वाविश्वकृतेविभुः ॥ ६२-१०
रुदंस्तस्याः समीपे चाप्यागतः प्रेतसद्मनि ।
रुदन्तं च ततोबालंकृत्वोत्सङ्गे कृपान्विता ॥ ६२-११
कालिकाऽपाययत्स्तन्यं मा रुदेति प्रजल्पति ।
स्तन्यव्याजेन बालोऽपि पपौ क्रोधं तदङ्गजम् ॥ ६२-१२
योऽसौहरकण्ठभवविषादासीत्सुदुर्धरः ।
पीतक्रोधस्वभावेचसौम्यासीत्कालिकातदा ॥ ६२-१३
बालोऽपि बालरूपं तत्त्यक्तुमैच्छत्कृतक्रियाः ॥ ६२-१४
ततो देवाः कालिकायाः शङ्कमायाः पुनर्भयम् ।
ऊचुर्मा बाल बालत्वं परित्यजकृपांकुरु ॥ ६२-१५
बाल उवाच ।
न भेत्तव्यं कालिकायाः सौम्या देवी यतः कृता ।
अस्ति चेद्भवतां भीतिरन्यान्स्त्रक्ष्यामि बालकान् ।
चतुः षष्टिक्षेत्रपालानित्यमुक्त्वा सोऽसृजन्मुखात् ॥ ६२-१६
प्राह तान्बालरूपांश्च बालरूपी महेश्वरः ।
स्वर्गेषु पञ्चविंशानां पातालेषु च तावताम् ॥ ६२-१७
चतुर्दशानां भूर्लोके वासो वः पालनं तथा ।
अयमेव श्मशानस्थोभविताश्वाचवाहनम् ॥ ६२-१८
नैवेद्यं भवतांराजमाषतन्दुलमिश्रका ।
अनभ्यर्च्यचयोयुष्मान्कञ्चिकृत्यंविधास्यति ॥ ६२-१९
तस्य तन्निष्फलं भावि भुक्तं प्रेतैश्चराक्षसैः ।
इत्युक्त्वा भगवान्रुद्रस्तत्रैवान्तरधीयतः ॥ ६२-२०
क्षेत्रपलाः स्थिताश्चैवयथास्थाने निरूपिताः ।
इतिवःक्षेत्रपालानांसृष्टिःप्रोक्तासमासतः ॥ ६२-२१
आराधनं प्रवक्ष्यामि येन प्रीता भवन्ति ते ॥ ६२-२२
ॐक्षां क्षेत्रपालाय नमः । इति नवाक्षरो महामन्त्रः ॥
अनेनाऽत्र चन्दनादिदत्त्वाराजमाषतन्दुलमिश्रकांश्च
चतुःषष्टिकृतभागान्वटकान्निवेद्य तावत्यो दीपिकास्तावन्ति पत्राणि
पूगाणि निवेद्यदण्डवत्प्रणम्यमहास्तुतिमेतांजपेत् ।
ॐऊर्ध्वकेशा विरूपाक्षा नित्यं ये घोररूपिणः ।
रक्तनेत्राश्च पिङ्गाक्षाः क्षेत्रपलान्नमामि तान् ॥ ६२-२५
अह्वरो ह्मापकुम्भश्च इडाचारस्थतैव यः ।
इन्द्रमूर्तिश्च कोलाक्ष उपपाद ऋतुंसनः ॥ ६२-२६
सिद्धेयश्चैव वलिको नीलपादेकदंष्ट्रिकः ।
इरापतिश्चाऽधहारी विघ्नहारी तथाऽन्तकः ॥ ६२-२७
ऊर्ध्वपादः कम्बलश्च खञ्जनः खर एव च ।
गोमुखश्चैव जङ्घालो गणनाथश्च वारणः ॥ ६२-२८
जटालोऽप्यजटालश्चनौमिस्वःक्षेत्रपालकान् ।
त्र्मृकारोहठकारीचतंकपाणिःखणिस्तथा ॥ ६२-२९
ठंठंकणो जम्भरश्च स्फुलिङ्गास्यास्तडिद्रुचिः ।
दन्तुरो घननादश्च नन्दकश्च तथा परः ॥ ६२-३०
फेत्कारकारी पञ्चास्यो बर्बरी भीमरूपवान् ।
भग्नपक्षः कालमेघोयुवानोभास्करस्तथ ॥ ६२-३१
रौरवश्चाऽपि लम्भोष्ठो वणिजः सुजटालिकः ।
सुगन्धो हुहुकश्चैव नौमि पातालरक्षकान् ॥ ६२-३२
सर्वलिङ्गेषु हुङ्कारः श्मशानेषु भयावहः ।
महालक्षो वने घोरे ज्वालाक्षोवसतौस्थितः ॥ ६२-३३
एकवृक्षश्च वृक्षेषु करालवदनो निशि ।
घण्टारवो गुहावासी पद्मखञ्जो जले स्थितः ॥ ६२-३४
चत्वरेषु दुरारोहः पर्वते कुरवस्तथा ।
निर्झरेषु प्रवाहाख्यो माणिभद्रो निधिष्वपि ॥ ६२-३५
रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः ।
चतुर्दश भुवं वाप्य स्थिताश्चैवं नमामितान् ॥ ६२-३६
एवं चतुःषष्टिमिताञ्छरणं यामि क्षेत्रपान् ।
प्रसीदन्तु पर्सीदन्तु तृप्यन्तु मम पूजया ॥ ६२-३७
सरवकार्येषु यश्च्छैवंक्षेत्रपानर्चयेच्छुचिः ।
क्षेत्रपास्तस्य तुष्यन्ति यच्छन्तिचसमीहितम् ॥ ६२-३८
इमं क्षेत्रपकल्पञ्च विजानन्विजयस्तथा ।
यथोक्तविधिनाऽभ्यर्च्य सिद्धेयं तुष्टुवेचतम् ॥ ६२-३९
प्रणम्य च ततो देविमानर्च वटयक्षिणिम् ।
पुरा यदा नारदेन कलापग्रामतो द्विजाः ॥ ६२-४०
समानीतास्तैश्च साकं सुनन्दा नाम ब्राह्मणी ।
विधवाऽप्यागता तत्र तपस्तप्तुं महीतटे ॥ ६२-४१
सा कृछ्राणि पराकाम्श्च अति कृछ्राणि कुर्वती ।
ज्येष्ठे भाद्रपदे चक्रे सावित्र्या द्वे त्रिरात्रिके ॥ ६२-४२
मासोपवासञ्च तथा कार्तिके कुलनन्दिनी ।
सप्तलिङ्गानिसंपूज्यदेवीपूजांसदाव्यधात् ॥ ६२-४३
दर्शे स्नानं यथा चक्रे महीसागरसङ्गमे ।
इत्यादि बहुभिस्तैस्तैर्नित्यं नियमपालनैः ॥ ६२-४४
धूतपापा ययौ लोकमुमायाः कृतस्वागता ।
अंशेन च तटे तस्मिन्संभूता वटयक्ष्णी ॥ ६२-४५
तस्यास्तुष्टो वरं प्रादात्सिद्धलिङ्गस्थितो हरः ।
अनर्भ्यश्च य एनाञ्चमत्पूजांप्रकरिष्यति ॥ ६२-४६
तस्य तन्निष्फलं सर्वमित्युक्तं पाल्यमेव मे ।
तस्मात्प्रपूजयेन्नित्यं वटस्थां वटयक्ष्णीम् ।
पुष्पैर्धूपैस्तुनैवेद्यैर्मन्त्रेणाऽनेन भक्तितः ॥ ६२-४७
सुनन्दे नन्दनीयाऽसि पूजामेतां गृहाण मे ।
प्रसीद सर्वकालेषु मम त्वं वटयक्ष्णि ॥ ६२-४८
एवं सम्पूज्य तां नत्वाक्षमाप्यवटयक्ष्णीम् ।
सर्वान्कामानवाप्नोतिनरोनारीचसर्वदा ॥ ६२-४९
विजयश्चाऽपि माहात्म्यमिदं जानन्महामतिः ।
अनर्च वटवृक्षस्थां भक्तितो वतायक्ष्णीम् ॥ ६२-५०
ततः सिद्धांबिकां स्तुत्वा जप्तवानपराजितां ।
महाविद्यां वैष्णवीं तु साधनेन समन्वितां ॥ ६२-५१
यस्याःसमरणमात्रेणसर्वदुःखक्षयोभवेत् ।
तां विद्यांकीर्तयिष्यामिशृणुध्वंविप्रपुङ्गवाः ॥ ६२-५२
ॐ नमो भगवते वासुदेवाय नमोऽनन्तायसहस्रशीर्षाय
क्षीरोदार्णवशायिने शेषभोगपर्यङ्गाय गरुडवाहनाय पीतवाससे
वासुदेव सङ्कर्षण प्रद्य्म्नानिरुद्ध हयशिरो वराह नरसिंह वामन
त्रिविक्रम राम राम वरप्रद नमोऽस्तु ते नमोऽस्तु ते
असुरदैत्यदानव यक्षराक्षसभूतप्रेतपिशाचकुम्भाण्ड
सिद्धयोगिनीदाकिनी स्कन्दपुरोगामन् ग्रहान्नक्षत्रग्रहांश्चान्यांश्च हन
२ दह २ पच २ मथ २ विध्वंसय २ विद्रावय २ शङ्खेन च्क्रेण
वज्रेण गदया मुशलेन हलेन भस्मीकुरु सहस्रबाहवे सहस्रचरणायुध
जय २ विजय २ अपराजित अप्रतिहत सहस्रनेत्र ज्वल २ प्रज्वल २
विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुण्ठ
नारायण पद्मनाभ गोविन्द दामोदर हृषीकेश सर्वासुरोत्सादन
सर्वभूतवशङ्करः सर्वदुःखप्रभेदन सर्वयन्त्रप्रभ्ञ्जन
सर्वनागप्रमर्दन सर्वदेवमहेश्वर सर्वबन्धविमोक्षण
सर्वाहितप्रमर्दन सर्वज्वरप्रणाशन सर्वग्रहनिवारण
सर्वपापप्रशमन जनार्दन जनानन्दकर नमोस्तु ते स्वाहा ॥ ६२-५३
इमामपराजितां परमवैष्णवीं महाविद्यां जपति पठति शृणोति
स्मरति धारयति कीर्तयति न च तस्य वय्वग्निवज्रोपलाशनिवर्षभयं
न समुद्रभयं न ग्रहभयं न चौरभयं न श्वापदभयं वा भवेत् ॥ ६२-५४
क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविषोपविषगरदवशीकरणविद्वेषणोच्चाटनवधबन्धनभयं
वा न भवेदेतैर्मन्त्रपदैरुदाहृतैहृदा बद्धैः संसिद्धपूजितैः ॥
तद्यथा ॥
नमो नमस्तेऽस्तु अभये अनघे अजिते अत्रसिते अमृते अपराजिते
पठितसिद्धे स्मरितसिद्धे एकानंशे उमे ध्रुवे अरुन्धति सावित्रि गायत्रि
जातवेदसि मानस्तोके सरसि सरस्वति धरणि धारिणि सौदामिनि अदिते विनते
गौरि गान्धारि मातङ्गि कृष्णे यशोदे सत्यवादिनि ब्रह्मवादिनि कालि
कपालिनि सद्योवयवचनकरि स्थलगतं जलगतमन्तरीक्षगतं वा
रक्ष २ सर्वभूतभयोपद्रवेभ्यो रक्ष २ स्वाहा ॥ ६२-५६
यस्याः प्रणश्यतेपुष्पंगर्भोवा पततेयदि । म्रियन्तेबालकायस्याः
काकबन्ध्याचयाभवेत् धारयेत् इमाम् विद्यामेभिर्दोषैर्न लिप्यते ॥ ६२-५७
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
शस्त्रं धारयतेह्येषां समरेकाण्डधारिणी ॥ ६२-५८
गुल्मशूलाक्षिरोगाणां नित्यं नाशकरी तथा ।
शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम् ॥ ६२-५९ तद्यथा ॥
हन २ कालि सर २ कालि सर २ गौरि धम २ गौरि धम २ विद्ये आले ताले
माले गन्धे बन्धे पच २ विद्ये नाशय पापं हन दुःस्वप्नं विनाशयः
कष्टनाशिनि रजनि सन्ध्ये दुन्दुभिनादे मानसवेगे शङ्खिनि चक्रिणि
वज्रिणी शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि
केशवदयिते पशुपतिमहिते दुर्द्दमदमनि शर्वरि किराति मातङ्गि
ॐ हां ह्रं ह्रं ह्रं ह्रं क्रांक्रंक्रंक्रं त्वर २ ये मां द्विषन्ति
प्रत्यक्षं परोक्षं वा सर्वान्दमम् २ मर्द्द २ तापय २ पातय २
शोषय २ उत्सादय २ ब्रह्माणि माहेश्वरि वाराहि विनायकि ऐन्द्रि आग्नेयि
चामुण्डे वारुणि प्रचण्डविद्योते इन्द्रोपेन्द्रभगिनि विजये
शन्तिस्वस्तिपुष्टिविवर्धिनि कामाङ्कुशे कामदुधे सर्वकामवरप्रदे
सर्वभूतेषु वासिनि प्रति विद्यां कुरु २ आकर्षिणि वेशिनि ज्वालामालिनि
रमणि रामणि धरणि धारिणि मानोन्मानिनि रक्ष २ वायव्ये ज्वालामालिनि
तापनि शोषणि नीलपताकिनि महागौरि महाश्रये महामयूरि आदित्यरश्मि
जाह्नवि यमखण्टे किणिश्चिन्तामणि सुरभि सुरोत्पन्ने कामदुधे यथा
मनीषितं कार्यं तन्मम सिध्यतु स्वाहा ॐ स्वाहा ॐभूः स्वाहा ॐभुवः
स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वाः स्वाहा यत्रेवाऽऽगतं पापं तत्रैव
प्रतिगच्छतु स्वाहा ॐबले महाबले असिद्धसाधिनि स्वाहा ॥
इति इमां साधयामास वैष्णवीमपराजिताम् ।
विजयः संयतो भूत्वा मनोबुद्धिसमाधिभी ॥ ६२-६१
य इमम् पठतेनित्यं साधनेनविनाऽपिच ।
तस्याऽपि सर्वविघ्नानि नश्यन्तिद्विजपुङ्गवाः ॥ ६२-६२
इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायं प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने महाविद्यासाधनवर्णनं
नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥