Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003).

श्रीगणेशाय नमः

स्कन्दमहापुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

त्रिषष्टितमोऽध्यायः
बर्बरीक (सुहृदय) महाविद्याप्रसन्नकरणेनानाविघ्नानांरेपलादीनां
साहसेनापकरणं नागैर्वरप्रदानं तत्र कार्यसिद्धिवर्णनम्

सूत उवाच

अश्वत्थलाक्षावह्नौ च सर्षपान्केसरप्लुतान् ।
जुह्वतो मन्त्रमुख्यैश्च बलातिबल सञ्ज्ञकैः ॥ ६३-१

यामे तु प्रथमे याते काचिन्नारी समाययौ ।
शोणिताक्तैकवसना महोच्चोर्ध्वशिरोरुहा ॥ ६३-२

दारुणाक्षी शुक्लदन्ती भयस्याऽपिभयङ्करी ॥
सा रुरोद महारावंप्राप्यतां होमभूमिकाम् ॥ ६३-३

तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतमानिव ।
बर्बरीकश्च निर्भीतिस्तस्याः सम्मुखमाययौ ॥ ६३-४

ततः कण्ठं समाश्लिष्य तस्या मतिमतांवरः ।
रुरोद द्विगुणं वीरो मेघवन्नादयन्बहू ॥ ६३-५

तं दृष्ट्वा विस्मिता सा च यावन्मुञ्चति कर्तिकाम् ।
तावन्निष्पीडिते कण्ठे भोक्तुं तस्मिन्न चाऽशकत् ॥ ६३-६

पीड्यमाने च बलिना कण्ठेतस्यामुहुर्मुहुः ।
मुमोचविविधाञ्छब्दान्वज्राहत इवाऽचलः ॥ ६३-७

क्षणंरावांस्ततोमुक्त्वात्राहिमुञ्चेतिवक्त्यणु ।
ततः कृपालुनामुक्तापादयोः पतिताऽब्रवीत् ॥ ६३-८

शरणं ते प्रपन्नाऽस्मिदासीकर्मकरी तव ।
महाजिह्वेतिमां विद्धि राक्षसीं कामरूपिणीम् ॥ ६३-९

काशीश्मशाननिलयां देवदानवदर्पहाम् ।
ददासि यदि मे वीर दुर्ल्लभां प्राणदक्षिणाम् ॥ ६३-१०

ततस्तपश्चरिष्यामि स्रवभूताभयप्रदा ।
अस्मिन्नर्थे स्वदेवस्य शपथा मे तथाऽऽत्मनः ॥ ६३-११


यद्येतद्व्यत्ययं कुर्यां भस्मीभूंआं ततःक्षणाम् ।
एवं ब्रुवाणां तां वीरो निगृह्य शपथैर्दृडम् ॥ ६३-१२

मुमोच साऽपि संहृष्टा कृच्छ्रान्मुक्ता ययौ वनम् ।
सोऽपि वीरः खङ्गधारी तत्रैवाऽवस्थितोऽभवत् ॥ ६३-१३

ततो मध्यमरात्रौ च गर्जितं श्रूयते महत् ।
अन्धकारश्च सञ्जज्ञे तमोऽन्धनरकप्रभम् ॥ ६३-१४

ददृशे च ततः शैलः शतशृङ्गोऽतिविस्तरः ।
नानाशिलाः प्रमुमुचेनानावृक्षाम्श्चसोच्छ्रयान् ॥ ६३-१५

नानानिर्झरसङ्घोषं ववृषे शोनितं बहु ।
तं तथा नगमालोक्य निर्भीतो भैमिनन्दनः ॥ ६३-१६

पर्वतो द्विगुणे भूत्वा पर्वतं सहसाप्लुतः ।
पदाऽभिजघ्ने संहृत्य पर्वतं स्वेन भूभृता ॥ ६३-१७

तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमण्डले ।
ततो योजनदेहात्मा शतशीर्षः शतोदरः ॥ ६३-१८

वक्तैर्मुञ्चन्महाज्वालां रेपलेन्द्रोऽभ्यदावत ।
तं धावमानं दृष्ट्वैव बर्बरीको महाबलः ॥ ६३-१९

विधाय तादृशं रूपं नर्दन्तं चाऽप्यधावत ।
ततो मध्यमरात्रौ तौ लघु चित्रं च सुष्ठुच ॥ ६३-२०

युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ ।
छिन्नपापौ च खड्गाभ्यां छिन्नषड्गौ च मुष्टिभिः ॥ ६३-२१

पर्वताविव सप्तक्षौ चिरंयुयुधतुःस्थिरम् ।
ततः कक्षेसमुत्पाट्यभ्रामयित्वामुहूर्तकम् ॥ ६३-२२

भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह ।
चिक्षेप चाऽग्निकोणे तं महीसागररोधसि ॥ ६३-२३

तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते ।
एवं स रेपलेनाम वृत्रतुल्यपराक्रमः ॥ ६३-२४

नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत् ।
तं निहत्य पुनर्वीरो बर्बरीकः स्थितोऽभवत् ॥ ६३-२५

ततस्तृतीययामे च प्रतीच्या दिश आययौ ।
पर्वताभा महानादा पादैः कम्पयतीवभूः ॥ ६३-२६

दुहद्रुहाख्याऽश्वतरी मेघभ्रष्टा-तडिद्यथा ।
तमायान्तीं तथा दृष्ट्वा सूर्यवैश्वानरप्रभाम् ॥ ६३-२७

उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव ।
वेगात्ततः प्रद्रवतीं तुण्डे प्राहत्य मुष्टिभिः ॥ ६३-२८

स्थापयामास तत्रैवस्तथौ साचाऽतिपीडिता ।
ततः क्रुद्धामहारावंकृत्वाप्लुत्यदुहद्रुहा ॥ ६३-२९

जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् ।
ततो नदित्वा चाऽतीव पादघातममुञ्चता ॥ ६३-३०

पादौ च वीरः संगृह्य चिक्षेपभुविलीलया ।
ततः पुनः समुथाय धावन्तीं तां निगृह्यसः ॥ ६३-३१

मुष्टिना पातयित्वैवदन्तान्कण्ठमपीडयत् ।
क्लिन्नं वास इवापीड्यप्राणान्त्याजयद्द्रुतम् ॥ ६३-३२

एवं सीकोत्तरस्थाने श्मशानैकपदोद्भवा ।
शाकिनीनामधीशा सा बर्बरीकेण सूदिता ॥ ६३-३३

हत्वा तां चाऽपिचिक्षेप प्रतीच्यामिवलीलया ।
दुहद्रुहाख्यमद्यापि तत्र ग्रामस्म वर्तते ॥ ६३-३४

ततस्थथैव सन्तस्थौ बर्बरीकोऽभिरक्षणे ।
ततश्चतुर्थे यामे च प्राप्तः क्षपणकोऽद्भुतः ॥ ६३-३५

मुण्डी नग्नो मयूराणां पिच्छधारिमहाव्रतः ।
प्रोवाच चेदं वचनं हाहा कष्टमतीवभोः ॥ ६३-३६

अहिंसा परमो धर्मस्तदग्निर्जाल्यते कुतः ।
हूयमाने यतो वह्नौ सूक्ष्मजीववधोमहान् ॥ ६३-३७

श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन् ।
वदने सर्वदेवानां हूयमाने स्म पावके ॥ ६३-३८

अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते ।
इत्युक्त्वा सहसोत्पत्य कक्षामध्ये स्थिरोऽस्य च ॥ ६३-३९

दन्तान्मुष्टिप्रहारैश्च समाहत्याऽभ्यपातयत् ।
रुधिराविलवक्त्रन्तं मुमोच पतितं भुवि ॥ ६३-४०

स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः ।
भयाद्भैमेः प्रदुद्राव गुहाविवरमाविशत् ॥ ६३-४१

बहुप्रभेति नगरी षष्टियोजनमायता ।
तस्यां विवेश सहसा तं चाऽनु बर्बरीककः ॥ ६३-४२

बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनां ।
धावध्वं हन्यतामेष छिद्यतांभिद्यतामिति ॥ ६३-४३

तच्छृत्वा दैत्यवीराणां कोटयो नव बीषणाः ।
नानायुधधरा वीरं बर्बरीकमुपाद्रवन् ॥ ६३-४४

दृष्ट्वा तान् कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः ।
निमील्य सहसा नेत्रे तेषां मध्यमधावत ॥ ६३-४५

पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान् ।
हृदयस्याऽभिघातैश्च क्षणान्निन्येयमक्षयम् ॥ ६३-४६

यथा नलवनं क्रुद्धः कुर्याद्भूमिसमं करी ।
नवकोटिस्तथा जघ्ने सह तेनपलाशिना ॥ ६३-४७

ततो नागाः समागम्य वासुकीप्रमुखास्तदा ॥
तुष्टुवुर्विविधैर्वाक्यैरूचुः सुहृदयञ्च ते ॥ ६३-४८

नागानां परमं कृत्यं कृतं ते भैमिनन्दन ।
पलाशीनामदैत्योऽयं नीतोयत्सानुगोयमम् ॥ ६३-४९

अनेन न हि वयं वीर सानुगेन दुरात्मना ।
पीडिता विविधोपायैः पातालादप्यधः कृताः ॥ ६३-५०

वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतंपरम् ।
वरदाः सर्व एवस्मवयंतुभ्यंसुतोषिताः ॥ ६३-५१

सुहृदय उवाच

यदि देयो वरो मह्यं तदेनं प्रवृणोम्यहम् ।
सर्वविघ्नविनिर्मुक्तोविजयः सिद्धिमाप्नुयात् ॥ ६३-५२

ततस्तथेति तं प्रोचुः प्रहृष्टावायुभोजनाः ।
स च तेभ्यः पुरीं दत्त्वानिवृत्तोनागपूजितः ॥ ६३-५४

विवरस्य च मध्येन समागच्छन्महाप्रभम् ।
सर्वरत्नमयं लिङ्गं स्थितं कल्पतरोरधः ॥ ६३-५५

अर्च्यमानं सुबह्वीभिर्नागकन्याभिरैक्षत ।
ततोऽसौ विस्मयाविष्टोनागकन्याह्यपृच्छत ॥ ६३-५६

केनेदं स्थापितं लिङ्गं सूर्यवैश्वानरप्रभम् ।
लिङ्गादपि चतुर्दिक्षु मार्गाश्चेमे तु कीदृशाः ॥

इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा ।
सव्रीडं सस्मितापाङ्गनिर्मोक्षमिदमब्रवीत् ॥ ६३-५७

सर्वपन्नगराजेन शेषेण सुमहात्मना ।
तपस्तप्त्वा महालिङ्गमिदमत्र प्रतिष्ठितम् ॥ ६३-५८

दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम् ।
लिङ्गात्पूर्वेणमार्गोऽयंयातिश्रीपर्वतंभुवि ॥ ६३-५९

एलापत्रेण विहितो नागानां तत्र प्राप्तये ।
दक्षिणेन चमार्गोऽयं याति शूर्पारकं भुवि ॥ ६३-६०

कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये ।
पश्चिमेन च मार्गोऽयं प्रभासं याति सुप्रभम् ॥ ६३-६१

ऐरावतेन विहितो नागानां गमनाय च ।
उत्तरेण च मार्गोऽयं येन यातुं भवान्स्थितः ॥ ६३-६२

गुप्तक्षेत्रे सिद्धलिङ्गं यातिशक्तिगुहाऽऽकृतः ।
विहितस्तक्षकेणाऽसौ यातुंतत्रमहात्मना ॥ ६३-६३

इतीदं वर्णितं वीर विज्ञप्तिः श्रूयताम्मम ।
को भवानधुनैवेतो दैत्यपृष्ठ गतोऽभवत् ।
अधुनैव तथैकाकी समायातोऽत्र नो वद ॥ ६३-६४

वयञ्च सर्वास्तेदास्यस्त्वांपतिम्प्रवृणीमहे ।
अस्माभिः सहितः क्रीडविविधास्वत्रभूमिषु ॥ ६३-६५

बर्बरीक उवाच ।
अहं कुरुकुलोत्पन्नः पाण्डुपुत्रस्य पौत्रकः ।
बर्बरीक इति ख्यातस्तं दैत्यं हन्तुमागतः ॥ ६३-६६

स च दत्यो हतः पापः पुनर्यास्ये महीतलम् ।
भवतीभिश्च मे नास्ति कृत्यं भोभोः कथञ्चनः ॥ ६३-६७

ब्रह्मचारिव्रतं यस्मादहंसततमास्तितः ।
इत्युक्त्वाऽभ्यर्चयतल्लिङ्गंप्रणिपत्यचदण्डवत् ॥ ६३-६८

ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः ।
ततो बहिः समागत्य सप्रकाशं मुखं तदा ॥ ६३-६९

प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः ।
तस्मिन्काले च विजयः कर्म सर्वं समाप्तवन् ॥ ६३-७०

कान्त्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात् ।
ततो वियद्गतं देवैः पुष्पवर्षमभून्महत् ॥ ६३-७१

जगुर्गन्धर्वमुख्याश्च ननृतुश्चाऽप्सरोगणाः ।
विजयो बर्बरीकञ्च ततो वचनमब्रवीत् ॥ ६३-७२

तव प्रसाद्वीरेश सिद्धिः प्राप्ता मयाऽतुला ।
चिरञ्जीव चिरं नन्द चिरं वस चिरं जय ॥ ६३-७३

अत एवहिसाधूनां सङ्गमिच्छन्ति साधवः ।
औषधं सर्वदोषाणां भवेत्सत्सङ्गमोयतः ॥ ६३-७४

त्वञ्च होमस्थितं भस्म सिन्दूरसदृशप्रभम् ।
निःशल्यं सविववरकं पूर्यमाणं गृहाण च ॥ ६३-७५

अक्षय्यमेतत्संग्रामे प्रथमन्ते प्रमुञ्चतः ।
शत्रूणां स्थानकं मृत्योर्देहं ध्वस्तं करिष्यति ॥ ६३-७६

एवं सुखेन विजयः शत्रूणां ते भविष्यति ॥ ६३-७७

बर्बरीक उवाच

उपकुर्यान्निराकाङ्क्षोयःससाधुरितीर्यते ।
साकाङ्क्षमुपकुर्याद्यःसाधुत्वेतस्यकोगुणः ॥ ६३-७८

तद्देहि भस्म चाऽन्यस्मै केनाऽप्यर्थो न मेऽण्वपि ।
प्रसादसुमुखां दृष्टिं विना नाऽन्यद्वृणोमि ते ॥ ६३-७९

देवा ऊचुः

कुरूणां पाण्डवानाञ्च भविष्यति महान्रणः ।
ततो भूमिस्थितं भस्म प्राप्स्यन्ति यदि कौरवाः ॥ ६३-८०

महाननर्थोभवितापाण्डवानांततःस्फुटम् ।
तस्माद्गृहाणत्वंभस्मसोऽपिचक्रेतथावचः ॥ ६३-८१

देविभिः सहिता देवाः सम्मान्य विजयञ्च ते ।
सिद्धेश्वर्यंददुस्तस्मैसिद्धसेनेतिनामच ॥ ६३-८१

एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्ल्लभाम् ।
बर्बरीकश्चकृत्वैतदेवीभक्तिरतोऽवसत् ॥ ६३-८२

इति श्र्स्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्दे कौमारिकाखण्डे कार्यसिद्धिवर्णनं नाम त्रिषष्टितमोऽध्यायः