Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003).

श्रीगणेशाय नमः

स्कन्दमहापुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

चतुःषष्टितमोऽध्यायः
भीमबर्बरीकविवादप्रसङ्गे भीमेश्वरलिङ्गप्रतिष्ठावर्णनम्

सूत उवाच

एवं तत्र स्थिते तीरे देव्याराधनतत्परे ।
सप्तलिङ्गार्चनरते भीमनन्दननन्दने ॥ ६४-१

ततः कालेनकेनाऽपिपाण्डवाद्यूतनिर्जिताः ।
तत्राऽऽजग्मुश्चक्रमतस्तीर्थस्नानकृतेभुवम् ॥ ६४-२

प्रागेव चण्डिकां देविं क्षेत्रादीशानतः स्थिताम् ।
आसेदुर्मार्गखिन्नास्ते द्रौपदीपञ्चमास्तदा ॥ ६४-३

तत्रैव चोपविष्तोऽभूत्तदानीं चण्डिकागणः ।
बर्बरीकश्च तान्वीरान्समायातानपश्यत ॥ ६४-४

परंनासौवेदपाण्डून्पाण्डवास्तञ्चनोविदुः ।
आजन्मयस्मान्नैवाभूत्पाण्डूनांचास्यसङ्गमः ॥ ६४-५

ततः प्रविश्य वै तस्मिन्देवीमासाद्य पाण्डवाः ।
पिण्डकाद्यं तत्र मुक्त्वा तृषा प्रैक्षि जलं तदा ॥ ६४-६

ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह ।
प्रविशन्तं च तं प्राह युधिष्ठिर इदं वचः ॥ ६४-७

उद्धृत्य भीम तोयं त्वं पदौ प्रक्षाल्य भो बहिः ।
ततः पिबाऽन्यथा दोषो महांस्त्वामुपपत्स्यते ॥ ६४-८

एतद्राज्ञो वचोभीमस्तृषाव्याकुललोचनः ।
अश्रुत्वैवविवेशाऽसौकुण्डमध्यंजलेच्छया ॥ ६४-९

स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः ।
मुखं हस्तौ च चरणौ क्षालयामास शुद्धये ॥ ६४-१०

यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत् ।
प्रेताः पिशाचास्तद्रूपं संक्रम्यप्रपिबन्तितत् ॥ ६४-११

एवं प्रक्षालयाने च पादौ तत्र वृकोदरे ।
उपरिस्थस्तदा प्राह सत्यं सुहृदयो वचः ॥ ६४-१२

दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः ।
देवीकुण्डेक्षालयसि मुखंपादौकरौचयत् ॥ ६४-१३

यतो देवी सदाऽनेन जलेन स्नाप्यते मया ।
तदत्र प्रक्षिपंस्तोयं मलपापान्न बिभ्यसि ॥ ६४-१४

मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि ।
कुतो देवैश्च तत्पापं स्पृश्यते तत्त्वतो वद ॥ ६४-१५

शीघ्रं च त्वं निःसराऽस्मात्कुण्डाद्भृत्वा बहीः पिब ।
यद्येवं पाप मूढोऽसौ तीर्थेषु भ्रमसे कुतः ॥ ६४-१६

भीम उवाच

किमेदत्भाषसे क्रूर परुषं राक्षसाधम ।
यतस्तोयानि जन्तूनामुपभोगार्थमेव हि ॥ ६४-१७

तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि ।
अङ्गप्रक्षालनं स्नानमुक्तं मां निन्दसे कुतः ॥ ६४-१८

यदि न क्रियते पानमङ्गप्रक्षालनं तथा ।
तत्किमर्थं पूर्तधर्माः क्रियन्ते धर्मशालिभिः ॥ ६४-१९

सुहृदय उवाच

स्नातव्यं तीर्थमुख्येषु सत्यमेतन्न संशयः ।
चरेषु किन्तुसम्विश्यस्थावरेषु बहिः स्थितः ॥ ६४-२०

स्थावरेष्वपि सम्विश्य तन्न स्नानं विधीयते ।
न यत्र देवस्नानार्थं भक्तैः संगृह्यते जलम् ॥ ६४-२१

यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते ।
स वेशेऽपि क्रमाश्चाऽयं पादौप्रक्षाल्ययद्बहिः ॥ ६४-२२

ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते ।
किं न श्रुतस्त्वया प्रोक्तः श्लोकः पद्मभुवा पुरा ॥ ६४-२३

मलं मूत्रं पुरीषं च श्लेष्म निष्टीवनाश्रुच ।
गण्डूषाश्चैव मुञ्चन्ति ये ते ब्रह्महणैः समाः ॥ ६४-२४

तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः ।
तत्किमर्थं दुराचार तीर्थेष्वटसि बालिश ॥ ६४-२५

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
निर्विकाराः क्रियाः सर्वाः स हि तीर्थफलं लभेत् ॥ ६४-२६

भीम उवाच

अधर्मो वाऽपि धर्मोस्तु निर्गन्तुं नैव शक्नुयाम् ।
क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते ॥ ६४-२७

सुहृदय उवाच

जीवितार्थे भवान्कस्मात्पापंप्रकुरुतेवद ।
किंनश्रुतस्तवयाश्लोकः शिबिना यः समीरितः ॥ ६४-२८

मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।
न कल्पमपि जीवेत लोकद्वयविरोधिना ॥ ६४-२९

भीम उवाच

काकारवेण ते मह्यं कर्णौ बधिरतां गतौ ।
पास्यामेव जलं चात्रकामंविलप शुष्यवा ॥ ६४-३०

सुहृदय उवाच

क्षत्रियाणांकुलेजातस्त्वहंधर्माभिरक्षिणाम् ।
तस्मात्तेपातकंकर्तुं न दास्यामिकथञ्चन ॥ ६४-३१

तद्वराकाऽथ शीघ्रं त्वमस्मात्कुण्डाद्विनिःसर ॥ ६४-३२

इष्टकाशकलैः शीघ्रंचूर्णयिष्येऽन्यथा शिरः ।
इत्युक्त्वा चेष्टकांगृह्यमुमोचशिरसःप्रति ॥ ६४-३३

भीमश्चवञ्चयित्वातामुत्प्लुत्यबहिराव्रजत् ।
भर्त्स्यन्तौततश्चोभावन्योन्यं भीमविक्रमौ ॥ ६४-३४

युयुधाते प्रलम्बाभ्यां बाहुभ्यां युद्धपारगौ ।
व्यूढोरस्कौदीर्घभुजौनियुद्धकुशलावुभौ ॥ ६४-३५

मुष्टिभिः पार्ष्णिघातैश्चजानुभिश्चाऽभिजघ्नुतुः ।
ततो मुहूर्तात्कौरव्यः पर्यहीयतपाण्डवः ॥ ६४-३६

हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः ।
अहीयत ततोऽप्यङ्ग ववृधे बर्बरीककः ॥ ६४-३७

ततो भीमं समुत्पाट्य बर्बरीको बलादिव ।
निष्पिपेष ततः क्रुद्धस्तदद्भुतमिवाऽभवत् ॥ ६४-३८

मूर्च्छितं चैवमादाय विस्फुरन्तं पुनः पुनः ।
सागराय प्रचलितः क्षेप्तुं तत्र महांभसि ॥ ६४-३९

ददृशुः पाण्डवा नैतद्देव्या नयनयन्त्रिता ॥ ६४-४०

तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाऽद्भुतविक्रमेण ।
आश्चर्यमासीद्दिवि देवतानां देवीभिराकाशतले निरीक्ष्य तम् ॥ ६४-४१

सागरस्य ततस्तीरे बर्बरीकं गतं तदा ।
निरीक्ष्य भगवान्रुद्रो वियत्स्थः समभाषत ॥ ६४-४२

भीमो राक्षसशार्दूल बर्बरीक महाबल ।
मुञ्चैनं भरतश्रेष्ठं भीमं तव पितामहम् ॥ ६४-४३

अयं हि तीर्थयात्रायांविचरन्भ्रातृभिर्युतः ।
कृष्णयाचाप्यदस्तीर्थंस्नातुमेवाऽभ्युपाययौ ॥ ६४-४४

सम्मानं सर्वथा तस्मादर्हः कौरवनन्दनः ।
अपापो वा सपापो वा पूज्य एव पितामहः ॥ ६४-४५

सूत उवाच

इति रुद्रवचः श्रुत्वा सहसा तं विमुच्य सः ।
न्यपतत्पादयोर्हा धिक्कष्टंकष्टंचप्राहसः ॥ ६४-४६

क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत ।
शिरश्च ताडयन्स्वीयं रुरोद च मुहुर्मुहुः ॥ ६४-४७

तं तथा परिशोचन्तं मुह्यमानंमुहुर्मुहुः ।
भीमसेनः समालिङ्ग्य आघ्रायचः वचोऽब्रवीत् ॥ ६४-४८

वयं त्वां नैव जानीमस्त्वं चाऽस्माञ्जन्मकालतः ।
अत्र वासश्च ते पुत्रः भैमेः कृष्णाच्च संश्रुतः ॥ ६४-४९

परं नोविस्मृतंसर्वंनानादुःखैःप्रमुह्यतां ।
दुःखितानंयतःसर्वास्मृतिर्लुप्ताभवेत्स्फुटम् ॥ ६४-५०

तदस्माकमिदंदुःखंसर्वकालविधानतः ।
मा शोचत्वंचतनय न ते दोषोऽस्तिचाण्वपि ॥ ६४-५१

यतः सर्वः क्षत्रियस्यदन्ड्योविपथिसंस्थितः ।
आत्मापिदण्ड्यः साधूनांप्रवृत्तः कुपथाद्यदि ॥ ६४-५२

पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते ।
अतीव मम हर्षोऽयं धन्योऽहं पूर्वजाश्च मे ॥ ६४-५३

यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः ।
वरार्हस्त्वं प्रशंसार्होभवान्येषांसतांतथा ॥ ६४-५४

तस्माच्छोकं विहायेमं स्वस्थो भवितुमर्हसि ॥ ६४-५५

बर्बरीक उवाच

पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम् ।
अप्रशस्यं नार्हसीहद्रष्टुंस्प्रष्टुमपि प्रभो ॥ ६४-५६

सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः ।
पित्रोरभक्तस्य पुनर्निष्कृतिर्नैव विद्यते ॥ ६४-५७

तद्येने देहेन मया ताततातोऽभिपीडितः ।
तत्स्वमेव समुत्स्त्रक्ष्ये महीसागरसङ्गमे ॥ ६४-५८

मैवं भवेयमन्येषु अपि जन्मसु पातकी ।
न मामस्मादभिप्रायादर्हः कोऽपिनिवर्तितुम् ॥ ६४-५९

यतोंऽशोनविलुप्येतप्रायश्चित्तान्निवारकः ।
एवमुक्त्वासमुत्प्लुत्यययौचैवाऽर्णवं बली ॥ ६४-६०

समुद्रोऽपि चकम्पे च कथमेनं निहन्म्यहम् ।
ततः सिद्धाम्बिकायाश्चदेव्यस्तत्रचतुर्दश ॥ ६४-६१

समालिङ्ग्यच संस्ताप्यरुद्रेणसहिता जगुः ।
अज्ञातविहितेपापेनास्तिवीरेन्द्रकल्मषम् ॥ ६४-६२

शास्त्रेषूक्तमिदं वाक्यं नाऽन्यथा कर्तुमर्हसि ।
अमुञ्च पृष्ठलानं त्वं पश्य भोः स्वं पितामहम् ॥ ६४-६३

पुत्रपुत्रेति भाषन्तमनुत्वा मरणोन्मुखम् ।
अधुना चेत्स्वकं देहं वीर त्वं परित्यक्ष्यसि ॥ ६४-६४

ततस्त्यक्षति भीमोऽपि पातकं तन्महत्तव ।
एवं ज्ञात्वा धारय त्वं स्वशरीरं महामते ॥ ६४-६५

अथ चेत्त्यक्तकामस्त्वं तत्राऽपि वचनं शृणु ।
स्व्लपेनैवचकालेनकृष्णाद्देवकिनन्दनात् ॥ ६४-६६

देहपातस्तवप्रोक्तस्तं प्रतीक्ष यदिच्छसि ।
यतो विष्णुकराद्वत्स देहपातो विशिष्यते ॥ ६४-६७

तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च ।
एवमुक्तो निववृते बर्बरीकोऽपिदुर्मनाः ॥ ६४-६८

रुद्रं देवीश्च चामुण्डां सोपालम्भं वचोऽब्रवीत् ।
त्वमेव देवि जानासि रक्ष्यन्ते शार्ङ्गधन्विना ॥ ६४-६९

पाण्डवाभूमिलाभार्ततत्तेकस्मादुपेक्षितम् ।
त्वया च समुपागत्य रक्षितोऽयं वृकोदरः ॥ ६४-७०

देव्युवाच

अहं च रक्षयिष्यामिस्वभक्तंकृष्णमृत्युतः ।
यस्माच्च चण्डिकाकृत्येकृतोऽनेनमहारणः ।
तस्माच्चण्डिलनाम्नाऽयं विश्वपूज्यो भविष्यति ॥ ६४-७१

एवमुक्त्वाः गताः सर्वे देवादेव्यस्त्वदृश्यताम् ।
भीमोऽपि तं समादाय पाण्डुभ्यः सर्वमूचिवान् ॥ ६४-७२

विस्मिताः पाण्डवास्तं च पूजयित्वा पुनः पुनः ।
यथोक्तविधिना चक्रुस्तीर्थस्नानमतन्द्रिताः ॥ ६४-७३

भीमोऽपियत्ररुद्र्णमोक्षितस्तत्रसुप्रभम् ।
लिङ्गं संस्तापयामास भीमेश्वरमिति श्रुतम् ॥ ६४-७४

ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः ।
रात्रौ संपूज्य भीमेशं जन्मपापाद्विमुच्यते ॥ ६४-७५

यथैव लिङ्गानि सुपूजितानि सप्ताऽत्र मुख्यानि महाफलानि ।
भीमेश्वरं लिङ्गमिदं तथैव समस्तपापापहरं सुपूज्यम् ॥ ६४-७६

इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे भीमेश्वरमाहात्म्यवर्णनं नाम
चतुःषष्टितमोऽध्यायः ॥ ६४ ॥