Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003).

श्रीगणेशाय नमः

स्कन्दमहापुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

पञ्चषष्टितमोऽध्यायः
युधिष्ठिरकृतं देवीस्तवनं तत्र युधिष्ठिरभीमयोर्विसंवादः
भीमद्वारा स्वेनेत्रान्धत्वमपाकर्तुं प्रार्थनाकेलेश्वर्यादि
देवीस्थापनम् ॥

सूत उवाच

उषित्वासप्तरात्राणितीर्थेऽस्मिन्भ्रातृभिः सह ।
युधिष्ठिरो महातेजा गमनायोपचक्रमे ॥ ६५-१

प्रभाते विमलेस्नात्वादेविर्लिङ्गान्यथाऽर्च्यच ।
कृत्वाप्रदक्षिणंक्षेत्रंदेवीस्तोत्रंजजाप सः ।
प्रयणकालेषु सदा जप्यं कृष्णेन कीर्तितम् ॥ ६५-२

युधिष्ठिर उवाच

देवी पूज्ये महाशक्ते कृष्णस्यभगिनिप्रिये ।
नत्वा त्वां शरणंयामिमनोवाक्कायकर्मभिः ॥ ६५-३

सङ्कर्षणाभयदाने कृष्णच्छविसमप्रभे ।
एकानंशे महादेवी पुत्रवत्त्राहि मां शिवे ॥ ६५-४

त्वयाततमिदं विश्वं जगदव्यक्तरूपया ।
इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे ॥ ६५-५

कार्यारम्भेषु सर्वेषु सानुगेनमया तव ।
स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकम्प्यताम् ॥ ६५-६

सूत उवाच

इति ब्रूवाणं राजानां शिरोबद्धाञ्जलिं तदा ।
वायुपुत्रः प्रहस्यैवसासूयमिदमब्रवीत् ॥ ६५-७

ये त्वांराजन्वदन्त्येवंसर्वज्ञोऽयंयुधिष्ठिरः ।
वृथैववचनंतेषांयतस्त्वंवेत्सिनाऽण्वपि ॥ ६५-८

कोहि प्रज्ञवतां मुख्यः सर्वशस्त्रविदाम्वरः ।
स्त्रीणांशरणमापद्येदृजुबुद्धिर्यथा भवान् ॥ ६५-९

यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते ।
जडेयं प्रकृतिर्मूढा यया सम्मोह्यते जगत् ॥ ६५-१०

सचेतनञ्च पुरुषं प्रकृतिञ्च विचेतनाम् ।
प्राहुर्बुधा नराध्यक्ष पुंसश्च प्रकृतिः प्रिया ॥ ६५-११

तत्स्वयं पुरुषोभूत्वा युधिष्ठिर वृथामते ।
प्रकृतिं नौषि नत्वातां हासोमेऽतीवजायते ॥ ६५-१२

आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ ।
यथा स मूढो भवति देवीभक्तिरतस्तथा ॥ ६५-१३

यदिते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता ।
तत्किमर्थं महादेवं नस्थौषि त्रिपुरान्तकम् ॥ ६५-१४

अलक्ष्यमिति वा मत्वा महेशानां महामते ।
तत किमर्थं दाशार्हं नस्तौषि पुरुषोत्तमम् ॥ ६५-१५

यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनन्दिनी ।
इन्द्रप्रस्ते तथा राज्यं राजसूयस्त्वयाकृतः ॥ ६५-१६

विजयेन धनुर्लब्धं जरासन्धो मया हतः ।
प्रत्याहर्तुंतथेच्छामः कौरवेभ्यः स्वकांश्रियम् ॥ ६५-१७

यस्यप्रसादात्तंमुक्त्वाकृष्णंहास्तौषि यज्जयी ॥
अथ स्वयंकौरवाणामुत्पन्नं कुलसत्तमे ॥ ६५-१८

जानन्नात्मानमल्पत्वाद्बुद्धेर्नस्तौषि यादवम् ।
तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम् ॥ ६५-१९

येन विद्धं पुरा लक्ष्यं येन कर्णादयोजिताः ।
येन तत्खाण्डवं दग्धं यज्ञेयेननृपाजिताः ॥ ६५-२०

श्रूयते येन विक्रम्यमहेशानोऽपिनिर्जितः ।
स्वर्लोकसंस्थितस्यास्यशरणं याहिस्तौषि च ॥ ६५-२१

अथवा तेन शक्रेण राज्यम्मे नाऽर्पितंकुतः ।
इति मत्वावृथैव त्वं न स्तौषिभ्रातरम् मम ॥ ६५-२२

ततो मां वा कथं वीरं न स्तौषित्वंयुधिष्ठिर ।
येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः ॥ ६५-२३

वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः ।
राजराजस्तथा येनजरासन्धोनिपातितः ॥ ६५-२४

पूर्वोदिङ्निर्जितायेनयेनपूर्वंबको हतः ।
हिडिम्भश्च महावीरः किर्मीरश्चाऽधुना वने ॥ ६५-२५

कालेकाले च रक्षामित्वामेवाऽहंसदानुगः ।
नताम्पश्यामिरक्षन्तींनत्वायांस्तौषिभारत ॥ ६५-२६

अथ क्षुधाबलं ज्ञात्वामामौदरिकसत्तमम् ।
क्रूरं साहसिकं चैव न स्तौषि क्षमिणांवरः ॥ ६५-२७

ततः सुसंयतो भूत्वा प्रणवं समुदीरयन् ।
कथंनयासिमार्गत्वंवृथालापोहिदोषभाक् ॥ ६५-२८

प्रेताः पिशाचा रक्षांसिवृथालापरतं नरम् ।
आविशन्ति तदाविष्टोवक्ताबद्धं पुनः पुनः ॥ ६५-२९

वृथालापी यदश्नातियत्करोति शुभं क्वचित् ।
प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः ॥ ६५-३०

नाऽयंतस्यास्तिवैलोकः कुतएवपरोऽभवत् ।
तस्मात्विजानतायत्नात्त्याज्यमेववृथावचः ॥ ६५-३१

एवं सस्मारितोऽपित्वंयदिभूयःप्रवर्तसे ।
भूताविष्टश्चिकित्स्योनोविविधैरौषधैर्भवान् ॥ ६५-३२

सूत उवाच

इति प्रवर्णितां श्रुत्वा भीमसेनेनभारतिं ।
पटीमिव प्रविततां विहस्याऽऽहयुधिष्ठिरः ॥ ६५-३३

नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा ।
मातरं सर्वभूतानामम्बिकां यन्न मन्यसे ॥ ६५-३४

स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् ।
स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर ॥ ६५-३५

यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता ।
तव देहोद्भवः पार्थकथंस्यात्तत्त्वतो वद ॥ ६५-३६

ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि ।
पुनर्भजे यतो देवी तेनमन्येमहोर्जिताम् ॥ ६५-३७

वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्परां ।
अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान् ॥ ६५-३८

नैवं भूयः प्रवक्तव्यंमौर्व्यात्प्रति महेश्वरीं ।
भूमौनिपत्यशरणंयाहिचेत्सुखमिच्छसि ॥ ६५-३९

भीम उवाच

सर्वोपायैर्बोधयन्ति चाटा हस्तगतं नरम् ।
इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ॥ ६५-४०

मुण्डे मुण्डे मतिर्भिन्नासत्यमेतन्नृप स्फुटम् ।
स्वाभीष्टं कुरुते सर्वःकुर्मोऽभीष्टंवयंतथा ॥ ६५-४१

नागायुधसमप्राणो वायुपुत्रो वृकोदरः ।
न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथञ्चन ॥ ६५-४२

इत्युक्त्वा वचनं भीमोह्यनुवव्राजतं नृपम् ।
राजाऽपि सानुगोयातोनसाध्वितिमुहुर्ब्रुवन् ॥ ६५-४३

ततः क्षणेनविकलस्त्वितश्चेतश्चप्रस्खलत् ।
उवाच वचनं भीम सुसंभ्रान्तोनृपंप्रति ॥ ६५-४४

धर्मराज महाबुद्धे पश्य मां नृपसत्तम ।
चक्षुभ्यांनैव पश्यामि वैकलयं किमिदं मम ॥ ६५-४५

राजोवाच

भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी ।
तेन नष्टे चक्षुषी ते महासाहसवल्लभ ॥ ६५-४६

तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीं ।
पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः ॥ ६५-४७

भीम उवाच

अहमप्यङ्ग जानामिसमोदेव्या न कश्चन ।
प्रभावप्रत्ययार्थंहि सदा निन्दामि तां पुनः ॥ ६५-४८

तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले ।
मनोवाक्बुद्द्धिभिर्नत्वाशरणंस्तौमिमातरम् ॥ ६५-४९

सूत उवाच

इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टाङ्गं प्रणिपत्य च ।
गत्वैवदेव्याः शरणंभीमस्तुष्टावमातरम् ॥ ६५-५०

भीम उवाच

सर्वभूताम्बिके देवि ब्रह्माण्डशतपूरके ।
बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते ॥ ६५-५१

त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवीत्वंचशाम्भवी ।
त्रिमूर्तिः शक्तिरूपात्वं रक्ष रक्ष नमोऽस्तु ते ॥ ६५-५२

त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैऋती ।
त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते ॥ ६५-५३

ईशानि देवी वाराही नारसिंहि जयप्रदे ।
कौमारि कुलकल्याणिकृपेश्वरिनमोऽस्तु ते ॥ ६५-५४

त्वंसूर्यत्वंतथासोमेत्वंभौमेत्वंबुधेगुरौ ।
त्वंशुक्रेत्वंस्थिताराहौत्वंकेतुषु नमोऽस्तु ते ॥ ६५-५५

वससिध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः ।
भचक्रेषु खचक्रेषु भूचक्रेचनमोऽस्तु ते ॥ ६५-५६

सप्तदीपेषु त्वं देवी समुद्रेषु च सप्तसु ।
सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते ॥ ६५-५७

त्वं देवि चाऽवतारेषु विष्णोः साहाय्यकारिणी ।
विष्णुनाऽऽभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते ॥ ६५-५८

चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये ।
चराचरस्तुते देवि चरणौ प्रणमामि ते ॥ ६५-५९

महाघोरे कालरात्रि घण्टालि विकटोज्ज्वले ।
सततं सप्तमीपूज्ये नेत्रदे शरणं भव ॥ ६५-६०

मेरुवासिनि पिङ्गाक्षि नेत्रत्राणैककारिणी ।
हुंहुङ्कारध्वस्तदैत्ये शरण्ये शरणं भवः ॥ ६५-६१

महानादे महावीर्ये महामोहविनाशिनी ।
महाबन्धापहे देवि देहि नेत्रत्रयं मम ॥ ६५-६२

सर्वमङ्गलमङ्गल्या यदि त्वं सत्यतोऽम्बिके ।
ततो मे मङ्गलं देहि नेत्रदानान्नमोऽस्तु ते ॥ ६५-६३

यदि सर्वकृपालुभ्य सत्यतस्त्वं कृपावती ।
ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते ॥ ६५-६४

पापोऽयमिति यद्देविप्रकुप्यसिवृथैवतत् ।
त्वं मां मोहयसि त्वेवं नतेतत्किं नमोऽस्तु ते ॥ ६५-६५

स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेनकुप्यति ।
तथा कुप्यसि मे मातरनाथस्याऽस्यदर्शय ॥ ६५-६६

इति स्तुता पाण्डवेन देवी कृष्णच्छविच्छविः ।
रामा (रा)रमाभिवदना प्रत्यक्षा समजायतः ६५-६७

विद्युत्कोटिसमाभासमुकुटेनाऽति शोभिता ।
सूर्यबिम्बप्रभाभ्यांचकुण्डलाभ्यांविभूषिता ॥ ६५-६८

प्रवाहेनेव हारेण सुरनद्या विराजिता ।
कल्पद्रुमप्रसूनैश्च पूर्णावतंसमण्डिता ॥ ६५-६९

दन्तेन्दुकान्तिविध्वस्तभक्तमोहमहाभया ।
खड्गचर्मशूलपात्रचतुर्भुजविराजिता ॥ ६५-७०

वाससा ताडिदाभेनमेघलेखेव वेष्टिता ।
मालया सुममालिन्या भ्राजितासालिमालया ॥ ६५-७१

सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता ।
जयेति पुष्पवर्षश्च शक्राद्यैरभिपूजिता ॥ ६५-७२

गणैर्देवीभिराकीर्णाशतपद्मैर्महामलैः ।
तां तादृशींव्योम्निदृष्ट्वामातरं व्योमवाहिनीम् ॥ ६५-७३

भूमौ निपत्य राजेन्द्रो नमोनम इति स्थितः ।
भीमोऽपि मातरं दृष्ट्वा यथा बालोऽभिधावति ॥ ६५-७४

तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् ।
दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा ॥ ६५-७५

प्रणिपत्यनमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ ।
प्रसीद देवि पद्माक्षी पुनर्मातः प्रसीद मे ॥ ६५-७६

पुनः प्रसीद पापस्य क्षमाशीले प्रसीद मे ॥ ६५-७७

एवंस्तुता भगवती स्वयमुत्थाप्य पार्थिवम् ।
भीमञ्चोत्सङ्गमारोप्यकृपयेदं वचोऽब्रवीत् ॥ ६५-७८

श्रीदेव्युवाच

यत्त्वयाऽभिहितं स्तोत्रं तेन तुष्टा तवोपरि ।
अतोनेत्रत्रयं दत्त्वं द्वे बाह्येचान्तरं परम् ॥ ६५-७९

नाऽहं कोपं यत्र तत्र दर्शयामि वृकोदर ।
त्वं तु प्रमाणपुरुषस्त्त्वत्तः क्रोधमदर्शयम् ॥ ६५-८०

नैतत्प्रियञ्च कृष्णस्यभ्रातुर्मेक्रोधमाचरम् ।
भवन्तो वासुदेवस्य यत्रप्राणा बहिश्चराः ॥ ६५-८१

त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर ।
मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति ॥ ६५-८२

तदेवं नैवभूयस्ते प्रकर्तव्यं कथञ्चन ।
अक्षिक्षेपो हि पूज्यानामावहत्यधिकंरुजम् ॥ ६५-८३

तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् ।
यच्चब्रवीमि त्वां वीर तन्निशामय भारत ॥ ६५-८४

यदा यदाहि धर्मस्यग्लानिराविर्भवेद्धरिः ।
तदातदवतीर्याऽहं विष्णोरस्य सहायिनी ॥ ६५-८५
इदानीं च हरिर्जातो वसुदेवसुतो भुवि ।
अहं च गोपनन्दस्य एकानम्शभिधासुता ॥ ६५-८६

तद्यथाभगवान्कृष्णोममभ्राताऽभिपूजितः ।
भवन्तोऽपितथामह्यंभ्रातरः पाण्डवाः सदा । ६५-८७

येभीमभगिनीत्येवंमाम्स्तोष्यन्तिनरोत्तमाः ।
आबाधानाशयिष्यामितेषांहर्षसमन्विता ॥ ६५-८८

त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे ।
भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने ॥ ६५-८९

कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् ।
महाप्रस्थानधर्मेणपृथिवीं परिचरिष्यथ ॥ ६५-९०

अस्मिन्नेव ततो देशे लोहो नाम महासुरः ।
भवतां न्य्स्तशस्त्राणां वधार्थं प्रक्रमिष्यति ॥ ६५-९१

ततस्तं सर्वभूतानामवध्यं भवतां कृते ।
अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ ॥ ६५-९२

निस्तीर्य च हिमम् सर्वं निमग्ना वालुकार्णवे ।
स्वर्गं यास्यतिराजैकः सशरीरोगमिष्यति ॥ ६५-९३

अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् ।
भविष्यति च तत्रैव स्थास्येऽहं कलया सदा ॥ ६५-९४

ततः कलियुगे प्राप्ते केलो नाम भविष्यति ।
ममभक्तस्तस्यनाम्नाभाव्याकेलेश्वरीत्यहम् ॥ ६५-९५

वैलाकश्चाऽपरोभक्तोभविष्यतिममोत्तमः ।
तस्याराधनतःख्यातिंप्रयास्यामिकलौयुगे ॥ ६५-९६

लोहाणासंस्थितांचैव येऽर्चयिष्यन्तिमां जनाः ।
श्रद्धयासितसप्तम्यांतैश्चसर्वत्रपूजिता ॥ ६५-९७

अन्धानाञ्चप्रदास्यामि भावीनिनयनान्यहम् ।
तस्मिन्दिनेतर्पिताऽहंभक्तिभावेनपाण्डव ॥ ६५-९८

पादाङ्गुष्ठेन च भवांस्तत्र कुण्डं विधास्यति ।
सर्वतीर्थस्नानतुल्यं तत्र स्नानन्ञ्च तद्दिने ॥ ६५- ९९

मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् ।
उद्धृत्य योजयिष्यामिप्रत्यक्षंतद्भविष्यति ॥ ६५-१००

एवं मम महास्थानं कलौ ख्यातं भविष्यति ॥ ६५-१०१
लोहाणाख्यं महाबाहो नाम केलेश्वरीति च ।
दुर्गमाख्यंततोहत्वाअस्मिन्क्षेत्रेचभारत ॥ ६५-१०२

दुर्गा नाम भविष्यामि महीसागरपूर्वतः ।
धर्मारण्ये वसिष्यामि भवतांत्राणकारणात् ॥ ६५-१०३

धर्मारण्ये स्थितां चैव येऽर्चयिष्यामि मानवाः ।
आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके ॥ ६५-१०४

स्नात्वा महीसागरं च तेषां दास्यामि वाञ्छितम् ।
विधिना येऽर्चयिष्यन्ति माञ्च श्रद्धासमन्विताः ॥ ६५-१०५

पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः ।
प्रवेशे च कलेः कालेभवतांवंशसम्भवः ॥ ६५-१०६

वत्सराजः पाण्डवानां तोषयिष्यति यत्नतः ॥ ६५-१०७

यस्य नाम्नाततः ख्याताभविष्यामिकलौयुगे ।
वत्सेश्वरीतिवत्सस्यराज्ञः सर्वार्थदायिनी ॥ ६५-१०८

मत्प्रसादात्सराजा वै भवनोत्तापकारिणीम् ।
अट्टालयांनामतदाराक्षसींनिहनिष्यति ॥ ६५-१०९

तस्याश्चाऽपिवधस्थानमट्टालजमितिस्थितम् ।
भविष्यतिपुरं तत्रमाञ्चसम्स्थापयिष्यति ॥ ६५-११०

अट्टालयाजग्रामेमामर्चयिष्यन्ति ये जनाः ।
वत्सेश्वरींसिताष्टाभ्यामाश्विनतैः सदार्चिता । ६५-१११

वत्सेश्वरीञ्च ये देवीं पूजयिष्यन्ति मानवाः ।
तेषां सर्वफलावाप्तिर्भविष्यति न संशयः ॥ ६५-११२

इत्थमट्टालये वासो लोहाणे च भविष्यति ।
धर्मारण्ये महाक्षेत्रे महीसागरसन्निधौ ॥ ६५-११३

मम लोकहितार्थाय लोहस्यच निशम्यताम् ।
अधीकृतोमयालोहोबह्वीस्तप्तातपः समाः ॥ ६५-११४

वृत्रासुर एवाऽजेयो लोकानुत्सादयिष्यति ।
तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः ॥ ६५-११५

यत्र हन्ता तत्र ग्रामं लोहाटीति भविष्यति ।
गयो नाम महादैत्यो भवतां विघ्नकृत्तदा । ६५-११६

प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् ।
गयत्राडेति मान्तत्रपूजयिष्यन्तिमानवाः ॥ ६५-११७
ग्रामं चापि गयत्राडं तत्रख्यातंभविष्यति ।
गयत्राडेगयत्राडांयेऽर्चयिष्यन्तिमानवाः ॥ ६५-११८

माघाष्टम्यां न शिष्यन्ति तस्य सर्वेऽप्युपद्रवाः ।
ये च मां कोपयिष्यन्ति पाण्डवाराधितां सदा ॥ ६५-११९

तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति ।
परिवारश्चमेचाऽत्रषण्डःसर्वोभविष्यति ॥ ६५-१२०

तस्मिन्कलियुगे घोरे रौद्रेरुद्रेऽतिनिर्घृणे ।
एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति ॥ ६५-१२१

भवत्सु चस्वर्गतेषुगयोऽपिसुमहत्तपः ।
तप्त्वाप्राप्यपुनःपुंस्त्वंलोकान्सम्पीडयष्यति ॥ ६५-१२२

गयातीर्थं गतं तं च गयाध्वंसनकाम्यया ।
बुध एव जगत्स्वामी तत्र तं सूदयिष्यति ॥ ६५-१२३

इथं श्रीमान्पीतवासा अवतीर्यबुधः प्रभुः ।
बहूनि कृत्वा कर्माणिस्वस्थानंप्रतिपत्स्यते ॥ ६५-१२४

इति संक्षेपतः प्रोक्तं भविष्यं पाण्डवा मया ।
भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च ॥ ६५-१२५

इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् ।
कृतं यदत्राऽऽगमनं तेन प्रीतिः परा मम ॥ ६५-१२६

भीमस्य चाऽपि पौत्रेण दृढं सन्तोषिताऽस्मि च ।
देव्यः सर्वाश्च मद्रूपं नैतज्जज्ञेयमतोऽन्यथा ॥ ६५-१२७

व्रजध्वं चाऽपि तीर्थानि यानि वो न कृतानि च ।
आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च ॥ ६५-१२८

आपृच्छे चाऽपि वः सर्वान्यूयं कृष्णसमा मम ॥ ६५-१२९

सूत उवाच

इति देव्यावचःश्रुत्वाविस्मयोत्फुल्ललोचनाः ।
पुनःपुनः प्रणम्येनांनानाऽपश्यन्दीपवद्गताम् ॥ ६५-१३०

ततस्तेबर्बरीकञ्चसंस्ताप्याऽत्रैवनिष्ठितम् ।
आगच्छयोगेचोक्त्वेदंचक्रुस्तीर्थानिमुख्यशः ॥ ६५-१३१

इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने
केलेश्वरी-वत्सेश्वरी-दुर्गादेवी-गयत्राडामाहात्म्यवर्णनं नाम
पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥