Electronic text prepared by A. Purushothaman
purushothaman_avaroth @ yahoo.com
based on
SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam
SkandamahApurANam, 7 parts in 8 volumes,
Chaukhambha Sanskrit Series Office, Varanasi (2003).

श्रीगणेशाय नमः

स्कन्दमहापुराणम्
माहेश्वरखण्डम्
कौमारिकाखण्डम्

षट्षष्टितमोऽध्यायः

कुरुक्षेत्रे कौरवपाण्डवसैन्ययोर्युद्धाय सज्जितयोर्भीमेन
युधिष्ठिरसम्वादस्तत्रपाण्डवपक्षीयैरर्जुनादिभिर्युद्धे
सैन्यसंहारायसमयसीमा निर्धारणे बर्बरीकेण स्वहस्तलाघवप्रदर्शनं
कृष्णेन चक्रद्वारा तच्छिरः कर्त्तनं
तस्मैशिरसेदेवीवरदानेनाऽऽमरत्वप्रदानं गुप्तक्षेत्रमाहात्म्यपरिसमाप्तिः

सूत उवाच

ततस्त्रयोदशे वर्षे व्यतीते समये तदा ।
उपप्लवे सङ्गतेषु सर्वराजसु पाण्डवाः ॥ ६६-१

योद्धुमागत्य सन्तस्थुः कुरुक्षेत्रं महारथाः ।
कौरवाश्चाऽपिसन्तस्थुर्दुर्योधनपुरोगमाः ॥ ६६-२

ततो भीष्मेणप्रोक्ताञ्चनरैःश्रुत्वायुधिष्ठिरः ।
रथातिरथसंख्यांतुराज्ञांमध्येवचोऽब्रवीत् ॥ ६६-३

भीष्मेण विहिताकृष्णरथातिरथवर्णना ।
ततो दुर्योधनोऽपृच्छदिदंस्वीयान्महारथान् ॥ ६६-४

ससैन्यान्पाण्डवानेतान्हन्यात्कालेन केन कः ।
मासेन तु प्रतिज्ञातं भीष्मेण च कृपेण च ॥ ६६-५

पक्षं द्रोणेन चाऽह्ना च दशभिर्द्रौणिना रणे ।
षड्भिः कर्णेन च तथा सदा मम भयं कृता ॥ ६६-६

तदहं स्वांश्चपृच्छामि केन कालेन हन्तिकः ।
एतच्छ्रुत्वा वचोराज्ञः फाल्गुनोवाक्यमब्रवीत् ॥ ६६-७

अयुक्तमेतद्भीष्माद्यैः प्रतिज्ञातं युधिष्ठिर ।
ततो जये च विजये निश्चयो हि मृषैव तत् ॥ ६६-८

तवाऽपियेसन्तिनृपाः सन्नद्धा रणसंस्थिताः ।
पश्यैतान् पुरुषव्याघ्रान् कालकल्पान् दुरासदान् ॥ ६६-९

द्रुपदश्च विराटश्च धृष्टकेतुञ्च कैकयम् ।
सहदेवं सात्यकिं च चेकितानं च दुर्जयम् ॥ ६६-१०
धृष्टद्युम्नं सपुत्रं च महावीर्यं घटोत्कचम् ।
भीमादिंश्च महेष्वासान् केशवं चापराजितम् ॥ ६६-११

मन्येऽहमेकस्त्वे तेषां हन्यात् कौरववाहिनीम् ।
सन्नद्धाः प्रतिदृश्यन्ते भीष्माद्या बहवोरथाः ॥ ६६-१२

तेभ्यो भयं न कार्यं ते फल्गवोऽमी मृगा इव ॥ ६६-१३

अस्माकं धनुषां घोषैरिदानीमेव भारत ।
कौरवा विद्रविष्यन्ति सिंहत्रस्ता मृगा इव ॥ ६६-१४

वृद्धाद्भीष्माद्द्विजाद्वृद्धाद्द्रोणादपि कृपादपि ।
बालिशात्किंभयं द्रौणेः सूतपुत्राच्च दुर्मतेः ॥ ६६-१५

अथवा चित्तनिर्वृत्यै ज्ञातुमिच्छसि भारत ।
शत्रूणां प्रत्यनीकेषु सन्धावच्छृणुमेवचः ॥ ६६-१६

एकोऽहमेव सङ्ग्रामे सर्वेतिष्ठन्तु ते रथाः ।
एकाह्नाक्षपये सर्वान् कौरवान् सैन्यसंयुतान् ॥ ६६-१७

इत्यर्जुनवचः श्रुत्वा स्मयन्दामोदरोऽब्रवीत् ।
एवमेतद्यथा प्राह फाल्गुनोऽयं मृषानतत् ॥ ६६-१८

ततश्च शङ्खान् भेरीश्च शतशश्चैवपुष्करात् ।
निर्वार्यराजमध्यस्थो बर्बरीकोवचोऽब्रवीत् ॥ ६६-१९

येन तप्तं गुप्तक्षेत्रे येन देव्यः सुतोषिताः ।
यस्याऽतुलं बाहुबलं तेन चोक्तं निशम्यतां ॥ ६६-२०

यद्ब्रवीमि वचः सत्यं शृणुध्वं तन्नराधिपाः ।
आत्मनो वीर्यसदृशं केवलं न तु दर्पतः । ६६-२१

यदार्येण प्रतिज्ञातमर्जुनेन महात्मना ।
न मर्षयामि तद्वाक्यं कालक्षेपो महानयम् ॥ ६६-२२

सर्वे भवन्तस्तिष्टन्तु सार्जुनाः सह केशवाः ।
एको मुहूर्तात्भीष्मादीन् सर्वान्नेष्ये यमक्षयम् ॥ ६६-२३

मयि तिष्टति केनाऽपि शस्त्रं ग्राह्यं न क्षत्रियैः ।
स्वधर्मशपथो वोऽस्तु मृते ग्राह्यं ततो मयि ॥ ६६-२४

पश्यध्वं मे बलं बाह्वोर्देव्याराधनसम्भवम् ।
माहात्म्यं गुप्तक्षेत्रस्य तथा भक्तिं च पाण्डुषु ॥ ६६-२५

पश्यध्वम्मे धनुर्घोरं तूणीरावक्षयौतथा ।
खड्गं च देव्या यद्दत्तं ततो वच्मि वचस्त्विदम् ॥ ६६-२७

इति तस्य वचः श्रुत्वा क्षत्रिया विस्मयं ययुः ।
अर्जुनश्च कटाक्षेपे लज्जितः कृष्णमैक्षत ॥ ६६-२८

तमाह ललितं कृष्णः फाल्गुनं परमं वचः ।
आत्मौपयिकमेवेदं भैमीपुत्रोऽभ्यभाषतः ॥ ६६-२९

नवकोटियुतोऽनेन पलाशी निहतः पुरा ।
क्षणादेव च पाताले श्रूयते महदद्भुतम् ॥ ६६-३०

पुनः प्रक्ष्यामहे त्वेनं केनोपायेन कौरवान् ।
मुहूर्तार्द्धंसि ब्रूहीति पृच्छ्यतां चाहतं जयः ।
ततः स्मयन् यादवेन्द्रो भैमीपुत्रमभाषत ॥ ६६-३१

भीष्मद्रोणकृपद्रौणिकर्णदुर्योधनादिभिः ।
गुप्तां त्र्यम्बकदुर्जेयां सेनां हंसि कथं क्षणात् ॥ ६६-३२

अयं महान् विस्मयस्ते वचसो भैमिनन्दन ।
सम्भूतः सर्वराज्ञाञ्च फाल्गुनस्य च धीमतः ॥ ६६-३३

तद्ब्रूहि केनोपायेन मुहूर्तार्द्धंसि कौरवान् ।
उपाय वीर्यन्ते ज्ञात्वा मंस्यामो वयमप्युतः ॥ ६६-३४

सूत उवाच

इत्युक्तो वासुदेवेन सर्वभूतेश्वरेण च ।
सिंहवक्षाः पर्वताभो नानाभूषणभूषितः ॥ ६६-३५

घटास्यो घटहासश्चऊर्ध्वकेशोऽतिदीप्तिमान् ।
विद्युदक्षोवायुजवोयश्चेच्छेन्नाशयेज्जगत् ॥ ६६-३६

देवीदत्तातुलबलो बर्बरीकोऽभ्यभाषत ।
यदि वो मानसं वीरा उपायस्य प्रदर्शने ॥ ६६-३७

तदहं दर्शयाम्येष पश्यध्वं सहकेशवाः ।
इत्युक्त्वा धनुरारोप्य सन्दधे विशिखं त्वरन् ।
निःशल्यं चाऽपि सम्पूर्णं सिन्दूराभेण भस्मना ॥ ६६-३८

आकर्णमाकृष्य च तं मुमोच
मुखादथोद्भूतमभूच्च भस्म ॥ ६६-३९

सेनाद्वये तच्च पपात शीघ्रं यस्यैव यत्राऽस्ति च मृत्युर्मम ।
सर्वरोमसु भीष्मस्य कण्ठे राधेयद्रोणयोः ॥ ६६-४०

ऊरौ दुर्योधनस्याऽपि शल्यस्याऽपिच वक्षसि ।
कण्ठे च शकुनेर्दीप्तं भगदत्तस्यचापतत् ॥ ६६-४१

कृष्णस्य पादतलके कण्ठे द्रुपदमत्स्ययोः ।
शिखण्डिनस्तथा कट्यां कण्थे सेनापतेस्तथा ॥ ६६-४२

पपात रक्तं तद्भस्म यत्र येषां च मर्मच ।
केवलं चैव पाण्डूनां कृपद्रौण्योश्च नास्पृशत् ॥ ६६-४३

इति कृत्वा ततो भूयो बर्बरीकोऽभ्यभाषत ।
दृष्टं भवद्भिरेवं यन्मया मर्म निरीक्षितम् ॥ ६६-४४

अधुना पातयिष्यामि मर्मस्वेषां शिताञ्छरान् ।
देवीदत्तानमोघाख्यान्यैर्मरिष्यन्त्यमी क्षणात् ॥ ६६-४५

शपथावः स्वधर्मस्यशस्त्रं ग्राह्यं न वः क्वचित् ।
मुहूर्तात्पातयिष्यामि शत्रुनेताञ्छितैः शरैः ॥ ६६-४६

ततो विस्मितचित्तानां युधिष्ठिर पुरोगिणाम् ।
आसीन्निनादः सुमहान्साधुसाध्विति शंसताम् ॥ ६६-४७

वासुदेवश्च संक्रुद्धश्चक्रेण निशितेन च ।
एवं ब्रुवत एवास्य शिरश्छित्वा न्यपातयत् ॥ ६६-४८

ततः क्षणत्सर्वमासीदाविग्रं राजमण्डलम् ।
व्यलोकयन् केशवन्ते विस्मिताश्चाभवन् भृशम् ॥ ६६-४९

किमेतदिति प्राहुश्च बर्बरीकः कुतो हतः ।
पाण्डवश्चापि मुमुचुरश्रूणि सह पार्थिवाः ॥ ६६-५०

हाहा पुत्रेति च गृणन्प्रस्खलंश्च पदे पदे ।
घटोत्कचोऽपतद्दीनः पुत्रोपरि विमूर्च्छितः ।
एतस्मिन्नन्तरे देव्यश्चतुर्दश समाययुः ॥ ६६-५१

सिद्धाम्बिका क्रोडमाता कपाली तारा सुवर्णा च त्रिलोकजेत्री ॥ ६६-५२
भाणेश्वरी चर्चिका चैकवीरा योगेश्वरी चण्डिका त्रैपुरा च ॥ ६६-५३

भूताम्बिका हरसिद्धिस्तथाऽमूः सम्प्राप्य तस्थुर्नृपविस्मयङ्कराः
श्रीचण्डीकाऽऽश्वास्य ततो घटोत्कचं
प्रोवाच वाक्यं महता स्वरेणा ॥ ६६-५४

शृणुध्वं पार्थिवाः सर्वे कृष्णेन विदितात्मना ।
हेतुना येन निहतो बर्बरीको महाबलः ॥ ६६-५५

मेरुमूर्ध्नि पुरा पृथ्वी समवेतान् दिवौकसः ।
भाराक्रान्ता जगादैतान्भारोऽपह्रियतां हिमे ॥ ६६-५६

ततो ब्रह्मा प्राह विष्णुं भगवंस्त्वमिदं शृणु ।
देवास्त्वानुगमिष्यन्तिभारं हरभुवः प्रभो ॥ ६६-५७

ततस्तथेति तन्मेने वचनं विष्णुरव्ययः ।
एतस्मिन्नन्तरे बाहुमुद्धृत्योच्चैरभाषत ॥ ६६-५८

सूर्यवर्चेति यक्षेन्द्रश्चतुराशीतिकोटिपः ।
किमर्थं मानुषे लोके भवद्भिर्जन्म कार्यते ॥ ६६-५९

मयि तिष्ठति दोषाणामनेकानां महास्पदे ।
सर्वे भवन्तो मोदन्तु स्वर्गेषु सहविष्णुना ॥ ६६-६०

अहमेकोऽवतीर्यैतान् हनिष्यामि भुवोभरान् ।
स्वधर्मशपथा वो वैसन्तिचेज्जन्मप्राप्स्यथ ॥ ६६-६१

इत्युक्तवचने ब्रह्मा क्रुद्धस्तं समभाषत ।
दुर्मते सर्वदेवानामविषह्यं महाभरम् ॥ ६६-६२

स्वसाध्यं ब्रूषे मोहात्त्वं शापयोग्योऽसि बालिश ।
देशकालोचितं स्वीयं परस्य च बलं हृदा ॥ ६६-६३

अविचार्यैव प्रभुषु वक्ति सोऽर्हति दण्डनम् ।
तस्माद् भूभारहरणे युद्धस्योपक्रमे सति ॥ ६६-६४

शरीरनाशं कृष्णात्त्वमवाप्स्यसि न संशयः ।
एवं शप्तो ब्रह्मणाऽसौ विष्णुमेतदयाचत ॥ ६६-६५

यद्येवं भविता नाशस्तदेकं देव प्रार्थये ।
जन्मप्रभृति मे देहि मतिं सर्वार्थसाधनीम् ॥ ६६-६६

ततस्तथेति तं प्राह केशवो देवसंसदि ।
शिरस्ते पूजयिष्यन्ति देव्याः पूज्यो भविष्यति ॥ ६६-६७

इत्युक्तवाचाऽवतीर्णोऽसौसहदेवैर्हरिस्तदा ।
हरिर्नाम स कृष्णोऽसौभवन्तस्तेतथासुराः ॥ ६६-६८

सूर्यवर्चाः स चाऽयं हि निहतो भैमिपुत्रकः ।
प्राक्छापं ब्रह्मणः स्मृत्वाहतोऽनेनमहात्मना ।
तस्माद्दोषो न कृष्णेऽस्मिन्द्रष्टव्यः सर्वभूमिपैः ॥ ६६-६९

श्रीकृष्ण उवाच ।
यदुक्तं भूमिपा देव्या तत्तथैव न संशयः ॥ ६६-७०

यद्येनमधुना नैव हन्यां ब्रह्मवचोऽन्यथा ।
ततोभवेदिति स्मृत्वामयाऽसौविनिपातितः ॥ ६६-७१

गुप्तक्षेत्रे मयैवाऽसौ नियुक्तौ देव्यनुस्मृतौ ।
पूर्वं दत्तं परं स्वीयं स्मरता देवसंसदि ॥ ६६-७२
इत्युक्ते चण्डिकादेवी तदा भक्तशिरस्त्विदम् ।
अभ्युक्ष्यसुधया शीघ्रमजरं चामरं व्यधात् ॥ ६६-७३

यथा राहुशिरस्तद्वत्तच्छिरः प्रणनाम तान् ।
उवाच च दृद्रक्षामि युद्धं तदनुमन्यताम् ॥ ६६-७४

ततः कृष्णो वचः प्राह मेघगंभीरवाक्प्रभुः ।
यावन्मही सनक्षत्रा यावच्चन्द्रदिवाकरौ ॥ ६६-७५

तावत्त्वं सर्वलोकानां वत्स पूज्यो भविष्यसि ।
देवी लोकेषु सर्वेषु देवीवद्विचरिष्यसि ॥ ६६-७६

स्वभक्तानां च लोकेषु देवीनां दास्यते स्थितिम् ।
बालानां ये भविष्यन्ति वातपित्तकफोद्भवाः ।
पिटकास्ताः सुखेनैव शामयिष्यसि पूजनात् ॥ ६६-७७

इदं च शृङ्गमारुह्य पश्य युद्धं यथ भवेत् ॥ ६६-७८

धावन्तः कौरवास्त्वस्मान् वयं यामस्त्वमूनिति ।
इत्युक्ते वासुदेवेन देव्योऽथाम्बरमाविशन् ॥ ६६-७९

बर्बरीकशिरश्चैव गिरिशृङ्गमवाप्य तत् ।
देहस्य भूमि संस्काराश्चाभवञ्छिरसो नहि ।
ततो युद्धं महद्भूत्कुरुपाण्डवसेनयोः ॥ ६६-८०

अष्टादशाहेन हता ये च द्रोणवृषादयः ।
दुर्योधने हते क्रूरे अष्टादशदिनात्यये ॥ ६६-८१

युधिष्ठिरो ज्ञाति मध्ये गोविन्दं समभाषत ।
पुरुषोत्तम संग्रामममुं सन्तारिता वयम् ॥ ६६-८२

त्वयैव नाथेन हरे नमस्ते पुरुषोत्तम ।
श्रुत्वा तस्याऽपि सासूयमिदं भीमो वचोऽब्रवीत् ॥ ६६-८३

येन ध्वस्ता धार्तराष्त्रास्तं निराकृत्यमां नृप ।
पुरुषोत्तमं कृष्णमिति ब्रवीषिकिमुमूढवत् ॥ ६६-८४

धृष्टद्युम्नं फाल्गुनं च सात्यकिं मां च पाण्डव ।
निराकृत्यव्रवीष्येव सूतंधिक्त्वां युधिष्ठिर ॥ ६६-८५

अर्जुन उवाच

मैवं मैवं ब्रूहि भीम न त्वं वेत्सि जनार्दनम् ।
न मया न त्वया पार्थ नान्येनाप्यरयो हताः ॥ ६६-८६

अहं हि सर्वदाऽग्रस्थं नरम्पश्यामिसंयुगे ।
निघ्नन्तं शात्रवांस्तत्र न जानेकोऽप्यसाविति ॥ ६६-८७

भीम उवाच

विभ्रान्तोऽसिध्रुवं पार्थ नात्रहन्तानरोऽपरः ।
अथचेदस्तित्वत्पौत्रमुच्चस्तंवच्मिहन्तकः ॥ ६६-८८

उपसृत्य ततो भीमो बर्बरीकमपृच्छत ।
ब्रूह्येते केन निहता धार्त्रराष्ट्रा हि शत्रवः ॥ ६६-८९

बर्बरीक उवाच

एको मया पुमान् दृष्टो युध्यमानः परैः सह ।
सव्यतः पञ्चवक्त्रः सदक्षिणे चैकवक्त्रतः ॥ ६६-९०

सव्यतो दश्शस्तश्च धृतशूलोद्युदायुधः ।
दक्षिणे च चतुर्हस्तो धृतचक्राद्युदायुधः ॥ ६६-९१

सव्यतश्च जटाधारी दक्षिणे मुकुटोच्चयः ।
सव्यतो भस्मधारी च दक्षिणे धृतचन्दनः ॥ ६६-९२

सव्यतश्चन्द्रधारी च दक्षिणे कौस्तुभद्युतिः ।
ममाऽपि तद्दर्शनतो महद्भयमजायत ॥ ६६-९३

ईदृशो मे नरो दृष्टो न चान्यो यो जघान तान् ।
इत्युक्ते पुष्पवर्षं तु खादासीत्सुमहाप्रभम् ॥ ६६-९४

सस्वनुर्देववाद्यानि साधुसाध्वितिवैजगुः ।
विस्मिताः पाण्डवाश्चासन्प्रणेमुः पुरुषोत्तमम् ॥ ६६-९५

विलक्षश्चाऽभवद्भीमो निश्वासंश्चाऽप्यमुञ्चत ।
तं ततः केशवः स्वामी समादायकरेदृढे ॥ ६६-९६

कुरुशार्दूल एहीति प्रोच्य सस्मारकाश्यपिम् ।
आरुह्यगरुडं पश्चात् स्मृतमात्रमुपस्थितम् ॥ ६६-९७

भीमेन सहितो व्योम्नि प्रयातो दक्षिणां दिशम् ।
ततोऽर्णवमतीत्यैवसुवेलं च महागिरिम् ॥ ६६-९८

लङ्कासमीपे दृष्ट्वैव सरः कृष्णोऽब्रवीद्वचः ।
कुरुशार्दूल पश्येदं सरो द्वादशयोजनम् ॥ ६६-९९

यदि शूरोऽसितच्छीघ्रमानयाऽस्यतलान्मृदम् ।
इत्युक्तो गरुडाच्छीघ्रं न्यपतत्तज्जले बली ॥ ६६-१००

योजनं वायुजवाद्गच्छन्नधो नान्तमपश्यत ।
ततो भीमो विनिःसृत्य भग्नवीर्योऽभ्यभाषत ॥ ६६-१०१

अगाधमेतत्सुमहत्सरः कैश्चिन्महाबलैः ।
अहं खादितुमारब्धः कथञ्चिच्चाऽपि निर्गतः ॥ ६६-१०२
एवमुक्तो हसन्कृष्ण उच्चिक्षेप महत्सरः ।
स्वेनाङ्गुष्ठेन तेजस्वी तदर्धाऽधर्मजायत ॥ ६६-१०३

तद्दृष्ट्वा विस्मितः प्राह किमिदं कृष्ण ब्रूहि मे ॥ ६६-१०४

श्रीकृष्ण उवाच

कुम्भकर्ण इति ख्यातः पूर्वमासीन्निशाचरः ।
रामबाणहतस्याभूच्छिरश्छिन्नं सुदुर्मतेः ॥ ६६-१०५

शिरसस्तस्यतालुक्यखण्डमेतद्वृकोदर ।
योजनद्वादशायामं मृदु क्षिप्तं विचूर्णितम् ॥ ६६-१०६

विधृतस्त्वं च यैस्ते तु सरोगेयाभिधाः सुराः ।
त्रिकूटस्य शिलाभिश्च चूर्णिता ये च कोटिशः ॥ ६६-१०७

एते हि विश्वरिपवो निहताः स्युरुपायतः ।
गच्छामः पाण्डवान्भीमद्रौणिर्हित्वरते दृढम् ॥ ६६-१०८

ततो भीमः प्रण्मम्याह मनोवाक्कायबुद्धिभिः ।
कृतमाजन्मतः सर्वं कुकृतं क्षम केशवः ॥ ६६-१०९

पुरुषोत्तम भवान् नाथ बालिशस्य प्रसीद मे ।
ततः क्षान्तमितिप्रोच्य भीमेन सहितो हरिः ॥ ६६-११०

रणाजिरं भूय एत्य बर्बरीकं वचोऽब्रवीत् ।
चरन्नेवं सुहृदय सर्वलोकेषु नित्यशः ॥ ६६-१११

पूजितः सर्वलोकैस्त्वं यच्छंस्तेषां वरान्वृतान् ।
गुप्तक्षेत्रं च न त्याज्यं सर्वक्षेत्रोत्तमोत्तमम् ॥ ६६-११२

देहिस्थल्यां तथा वासी क्षमस्व दुष्कृतं च यत् ।
इत्युक्तस्तान्नमस्कृत्य भैमिः स्वैरं ययौ मुदा ॥ ६६-११३

वासुदेवोऽपिकार्याणिसर्वाण्यूध्वर्मकारयत् ।
इति वोवर्णितोत्पत्तिबर्बरीकस्यवाडवाः ।
स्तवं चाऽस्यप्रवक्ष्यामि येन तुष्यति यक्षराट् ॥ ६६-११४

जयजय चतुरशीतिकोटिपरिवार सूर्यवर्चाभिदान यक्षराज जय
भूभारहरणप्रवृत्त लघुशापप्राप्तनैऋतियोनिसम्भव जय
कामकण्टकटाकुक्षिराजहंस जय घटोत्कचानन्दवर्धन बर्बरीकाभिधान
जय कृष्णोपदिष्ट श्रीगुप्तक्षेत्र देवीसमाराधनप्राप्तातुलवीर्य जय
विजय सिद्धिदायक जय पिङ्गलारेपलेन्द्रदुहद्रुहानवकोटीश्वरपलाशनदावानल
जय भूपातालान्तराले नागकन्यापरिहारक जय भीममानमर्दन जय
सकलकौरवसेनावधमुहूर्तप्रवृत्त जय श्रीकृष्ण वरलब्ध सर्व
वरप्रधानसामर्थ्य जय जय कलिकालवन्दित नमोनम्स्ते पाहिपहीति ॥ ६६-११५

अनेन यः सुहृदयं श्रावणेऽभ्यर्च्य दर्शके ।
वैशाखेच त्रयोदश्यां कृष्णपक्षे द्विजोत्तमाः ।
शतद्वीपैः पूरिकाभिः संस्तवेत्तस्य तुष्यति ॥ ६६-११६

ततो विप्रा नारदश्च समाराध्य महेश्वरम् ।
महीनगरके पुण्ये स्थापयामास शङ्करम् ॥ ६६-११७

लोकानां च हितार्थाय केदारं लिङ्गमुत्तमम् ।
अत्रीशादुत्तरे भागे महापापप्रणाशनम् ॥ ६६-११८

अत्र कुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ।
अत्रीशंच नम्स्कृत्य केदारं च प्रपश्यति ॥ ६६-११९

मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ।
ततो रुद्रो नीलकण्ठो नारदाय महात्मने ॥ ६६-१२०

वरं दत्त्वा स्वयं तस्तौ महीनगरके शुभे ।
कोटितीर्थे नरः स्नात्वानीलकण्ठं प्रपश्यति ॥ ६६-१२१

जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ।
जयादित्यं पूजयन्ति कूपे स्नात्वा नरोत्तमाः ॥ ६६-१२२

नतेषांवांशनाशोऽस्तिजयादित्यप्रसादतः ।
तेषांकुले न रोगः स्यान्न दारिद्र्यं नलाञ्छनम् ॥ ६६-१२३

पुत्रपौत्रसमायुक्ता धनधान्यसमायुताः ।
भुक्त्वा भोगानिह बहून् सूर्यलोके वसन्ति ते ॥ ६६-१२४

इति प्रोक्तं मया विप्रा गुप्तक्षेत्रं समासतः ।
सप्तकोशप्रमाणं च क्षेत्रस्याऽस्य पुरा द्विजाः ।
स्व्यम्भुवा प्रोक्तमिदं सर्वकामार्थसिद्धिदम् ॥ ६६-१२५

इति वो वर्णितः पुण्यो महीसागरसम्भवः ।
शृण्वन्सङ्कीर्तयंश्चैवं सर्वपापैः प्रमुच्यते ॥ ६६-१२६

य इदं श्रावयेद्विद्वान्महामाहात्म्यमुत्तमम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ६६-१२७

गुप्तक्षेत्रस्य माहात्म्यं सफलं श्रावयेद्यदि ।
सर्वैश्वर्यमवाप्नोति ब्रह्महत्यां व्यपोहति ॥ ६६-१२८

कोटितीर्थस्य माहात्म्यं महीनगरकस्य च ।
शृणोति श्रावयेद्यस्तु ब्रह्मभूयाय कल्पते ॥ ६६-१२९

कोटितीर्थनरः स्नात्वा श्राद्धंकृत्वा प्रयत्नतः ।
दानं दद्यात् यथाशक्त्या शृणुध्वं तत्फलंहि मे ॥ ६६-१३०
स्वर्गपातालमर्त्येषु यानि तीर्थानि सन्ति वै ।
तेषु दानेषु यत्पुण्यं तत्फलं प्राप्यते नरैः ॥ ६६-१३१

अश्वमेधाधिभिर्यज्ञैःरिष्टैःश्चैवाऽऽप्तदक्षिणैः ।
सर्वव्रततपोभिश्छ कृतैर्यत्पुण्यमाप्यते ॥ ६६-१३२

तत्पुण्यं प्राप्यते विप्राः कोटिटीर्थे न संशयः ॥ ६६-१३३

इदं पवित्रं खलु पुण्यदं सदा
यशस्करं पापहरं परात्परम् ।
शृणोति भक्त्या पुरुषः स पुण्यभा-
गसुक्षये रुद्रसलोकतां व्रजेत् ॥ ६६-१३४

धन्यं यशस्यं नियतं सुपुण्यं
स्वर्मोक्षदं पापहरं नराणाम् ।
शृणोति नित्यं नियतः शुचिः पुमान्
भित्वा रविं विष्णुपदं प्रयाति ॥ ६६-१३५

इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे गुप्तक्षेत्रमाहात्म्यपरिसमाप्तिवर्णनं
नाम षट्षष्टितमोऽध्यायः ॥